________________
• संगीतरत्नाकरः चलनं कम्पनं प्रोक्तमथ ज्ञेयं प्रवेशनम् । प्रवेशः पुटयोरन्तःकटाक्षस्तु विवर्तनम् ॥ ४५० ॥ उद्गतिस्तु समुत्तमन्तरा निर्गमस्तु यः । स निष्कामः प्राकृतं तु स्वभावस्थितिरुच्यते ॥ ४५१॥ समुद्वृत्तं च वलनं भ्रमणं वीररौद्रयोः । पातस्तु करुणे कार्यश्चलनं तु भयानके ।। ४५२ ॥ प्रवेशनं तु बीभत्से हास्ये तु स्याद्विवर्तनम् । शृङ्गारे स्यात्तु निष्कामो वीरे रौद्रे भयानके ॥ ४५३ ॥ अद्भुते च प्राकृतं तु भावेनावेशभागिनि ।
इति नव स्वनिष्टानि ताराकर्माणि । विषयाभिमुखान्यष्टौ ताराकाण्यथ ब्रुवे ॥ ४५४ ॥ समं साच्यनुवृत्तावलोकितानि विलोकितम् । उल्लोकितालोकिते च प्रविलोकितमित्यपि ॥ ४५५ ॥
पातः (३); कम्पनं चलनम् (४); पुटान्तः प्रवेशः प्रवेशनम् (५); कौटिल्यं तु विवर्तनम् (६); उद्गतिः समुवृत्तम् (७); अन्तरानिर्गमः निष्कामः (८); स्वभावस्थिति: प्राकृतम् (९); समुद्वृत्तमण्डलभ्रमणानि वीररौद्रयोः प्रयोज्यानि । पात: करुणे कार्य: । वलनं भयानके कार्यम् । प्रवेशनं बीभत्सहास्ययो: कार्यम्। विवर्तनं शृङ्गारे कार्यम् । निक्रामो वीररौद्रभयानकेषु कार्यः । अद्भुते च प्राकृतं कार्यम् ।। -४४७-४५३-॥
इति नव स्वनिष्ठानि ताराकर्माणि । (क०) विषयामिमुखान्युद्दिश्य लक्षयति--समं साचीत्यादि ।। -४५४-४६०.॥
Scanned by Gitarth Ganga Research Institute