________________
१५५
सप्तमो नर्तनाध्यायः कर्मभिस्तारकाभेदा यैः स्युस्तान्यधुना ब्रुवे ॥ ४४६ ॥ तानि द्वेधा स्वनिष्ठानि विषयाभिमुखानि च । भ्रमणं वलनं पातश्चलनं च प्रवेशनम् ॥ ४४७ ॥ विवर्तनं समुवृत्तं निष्क्रामः माकृतं तथा। स्वनिष्ठानि नवेत्याहुस्ताराकर्माणि सूरयः॥ ४४८ ॥ तारयोर्मण्डलभ्रान्तिः पुटान्तर्धमणं मतम् । वलनं त्र्यश्रगमनं पातस्तु स्यादधोगतिः ॥ ४४९ ॥
(क०) अथ तारकाभेदान् लक्षयितुं तद्भेदकानि कर्माणि वर्णयितुमाह-कर्मभिस्तारकाभेदा इत्यादि । यैः कर्मभिः तारकाभेदा स्युः; तानि कर्माणि अधुना ब्रूम इति । अयमभिप्रायः- नयनगोलकमाश्रितायास्तारकाया हस्तादिवत्स्वरूपगतभेदासंभवाद्भमणादिकर्मभेदादेव ताराभेदोऽवगन्तव्य इति । तानि कर्माणि स्वनिष्ठत्वेन विषयाभिमुखत्वेन च द्वेधा भवन्तीत्याह-तानि द्वेधेति ॥ -४४६, ४४६- ।।
(क०) तत्र स्वनिष्ठान्युद्दिश्य लक्षयति-भ्रमणमित्यादि ॥ -४४७-४५३.॥
इति नव स्वनिष्ठानि ताराकर्माणि । (सु०) तारकाभेदान् वक्तुं प्रथमं तत्कर्मणो भेदानाह-कर्मभिरिति । कर्मविशेषैः यैः तारकाभेदा भवन्ति, तान् अधुना कथयामि । तानि कर्माणि द्विप्रकाराणि ; स्वनिष्ठानि; स्वविषयाभिमुखानि विषयनिष्ठानि ; विषयाभिमुखानीति च । तत्र स्वनिष्ठानि ताराकर्माणि भ्रमणादिभेदेन नवविधानि । तानि यथा-भ्रमणम् ; वलनम्, पातः, चलनम् , प्रवेशनम् , विवर्तनम् , समुद्वृत्तम् , निष्क्रामः, प्राकृतमिति । क्रमेण लक्षणमाह-तारयोरिति । पुटान्तस्तारयोः मण्डलभ्रान्तिभ्रमणम् (१); त्र्यश्रगमनं वलनम् (२); अधोगमन
Scanned by Gitarth Ganga Research Institute