________________
१५४
संगीतरत्नाकरः उन्मेषितौ तु विश्लेषात्संश्लेषात्तु निमेषितौ ॥ ॥ ४४२ ॥ विवर्तितौ समुदृत्तौ त्रयोऽमी क्रोधगोचराः ।
इत्युन्मेषितनिमेषितविवर्तिताः (३-५) स्फुरितौ स्पन्दितौ स्यातां तावीर्ष्याविषयौ मतौ ॥ ४४३ ॥
___ इति स्फुरितौ (6) अतीव कुश्चितौ लग्नौ पिहितौ तौ दृशो रुजि । सुप्तिमूर्छातिवर्षोष्णधूमवाताञ्जनार्तिषु ॥ ४४४ ॥
इति पिहितौ (७) उत्तरेणाधराघातादभिघाते विचालितौ । आहुरन्ये त्वदृश्यौ ताविति विस्फारणात्पुटौ ॥ ४४५ ॥
इति विचालितौ (८) समौ स्वाभाविकावेतौ स्वभावाभिनये मतौ ।
इति समौ (९)
इति नवधा पुटौ। प्रयोज्यौ । आकुञ्चितौ कुञ्चितौ ; तौ रूपादौ, मनोहरे च प्रयोज्यौ । विश्लेषे उन्मेषितौ ; संश्लेषे निमेषितौ ; समुद्वृत्तौ विवर्तितौ । उन्मेषितनिमेषितविवर्तिता अमी त्रयोऽपि क्रोधे प्रयोज्याः । स्पन्दितौ स्फुरितो, तावीर्ष्यायां प्रयोज्यौ । अतीव परस्परसंलग्नौ पुटौ पिहितौ ; तौ रुजि प्रयोज्यौ, तथा सुप्तिमूर्छातिवर्षोष्णधूमवाताञ्चनार्तिषु च प्रयोज्याविति । उत्तरेण पुटेन, अधरस्य अधःस्थिस्य पुटस्य घातात् विताडितौ । तौ च अभिघाते कार्यो । अतिविस्फारणात् अनवलोकनीयौ पुटौ विताडिताविति केचिदाहुः । स्वाभाविको समौ ; एतौ स्वभावाभिनये प्रयोज्यौ ॥ ४४०-४४५- ॥
इति नवधापुटौ। इति पुटप्रकरणम् ।
Scanned by Gitarth Ganga Research Institute