________________
सप्तमो नर्तनाध्यायः सद्वितीयाल्पकस्पन्दादायता मन्थरा भवेत् । चतुरा रुचिरे स्पर्शे शृङ्गारे ललिते च सा ॥ ४३९ ॥
इति चतुरा (७)
इति सप्तधा भ्रूः। प्रसृतौ कुश्चितौ स्यातामुन्मेषितनिमेषितौ । विवर्तितौ च स्फुरितौ पिहितौ च विताडितौ ॥ ४४० ॥ समौ च नवधेत्युक्तौ पुटौ सोढलसूनुना । आयतौ प्रसृतौ स्यातां वीरे हर्षे च विस्मये ॥ ४४१॥
इति प्रस्तौ (१) . आकुश्चितौ कुश्चितौ स्तो रूपादौ च मनोहरे ।
इति कुश्चितौ (२)
(सु०) चतुरां लक्षयति-सद्वितीयेति । सद्वितीयं यथा तथा अल्पस्पन्दा दीर्घमन्थरा भ्रूश्च चतुरा । सा च रुचिरे, स्पर्श, शृङ्गारे, ललिते च प्रयोज्या ॥ ४३९ ॥
इति चतुरा (७) इति सप्तधा भ्रः । इति भ्रूप्रकरणम् ।
(क०) अथ पुटयोर्भेदान् लक्षयति-प्रस्तावित्यादि॥४४०-४४५-॥
(सु०) पुटयोभैदानाह-प्रसृताविति । प्रसृतौ, कुञ्चितौ, उन्मेषितो, निमेषितो, विवर्तितौ, स्फुटितौ, पिहितौ, विचलितौ, समाविति नवविधौ पुटौ । क्रमेण लक्षणमाह-आयताविति । आयतौ प्रसृतौ वीरे हर्षे विस्मये च
20
Scanned by Gitarth Ganga Research Institute