________________
संगीतरत्नाकरः केवला सद्वितीया वा मृदुभङ्गा निकुञ्चिता ॥ ४३७॥ मोहायिते कुट्टमिते विलासे किलकिश्चिते ।
___ इति निकुचिता (५) आमूलात्सद्वितीया भूरुक्षिप्ता भृकुटी क्रुधि ॥ ४३८ ॥
इति भृकुटी (६) तथा हेला नाम सात्त्विको भावविशेषः । यथा तेनैवोक्तं लक्षणम्
" स एव हावो हेला स्याल्ललिताभिनयात्मिका । नानाप्रकाराभिव्यक्तशृङ्गाराकारचिका" इति (पृ० ८)
॥ -४३५-४३९ ॥ ___ इति सप्तधा भ्रूः।
इति भ्रूप्रकरणम् । (सु०) उत्क्षिप्तां लक्षयति-उत्क्षिप्तेति । ऊर्ध्व नीता उत्क्षिप्ता अन्वर्था । उत्क्षिप्ता च एकस्य वा द्वयोर्वा भवतु । सा च स्त्रीणां कोपे, वितर्के, दर्शने, श्रवणे, लीला, हेलयोश्च प्रयोज्या ॥ -४३५, ४३६ ॥
इत्युरिक्षप्ता (३) (सु०) रेचितां लक्षयति–एकैवेति । एकैव ललितोत्क्षिप्ता भ्रू रेचिता। सा च नृत्तमात्रगोचरा ॥ ४३६-॥
इति रेचिता (४) (सु०) निकुञ्चितां लक्षयति-केवलेति । केवला वा द्वितीयसहिता वा, मृदुभङ्गा; मृदुर्भङ्गो यस्याः, सौकुमार्येण युक्ता भ्रूः निकुञ्चिता। सा च मोट्टामिते, विलासे, किलिकिञ्चिते च प्रयोज्या ।। -४३७, ४३७- ॥
__इति निकुचिता (५) (सु०) भृकुटी लक्षयति -आ मूलादिति । आ मूलात् सद्वितीयं यथातथा उत्क्षिप्ता भ्रूः भृकुटी । सा च कोपे कार्या ॥ -४३८ ॥
इति भृकुटी (६)
Scanned by Gitarth Ganga Research Institute