________________
सप्तमो नर्तनाध्यायः पतिता स्यादधो याता सद्वितीयाथवा क्रमात् । उत्क्षेपे विस्मये हर्षे रोषेऽसूयाजुगुप्सयोः ॥ ४३४ ॥ हासे घ्राणे च पतिते विधीयेतामुभे ध्रुवौ ।
इति पतिता (२) उत्क्षिप्ता संमतान्वर्था क्रमेण सह चान्यथा ॥ ४३५ ॥ स्त्रीणां कोपे वितर्के च दर्शने श्रवणे निजे । भ्रूलीलाहेलयोश्चैषा कार्योंक्षिप्ता विचक्षणैः ॥ ४३६ ॥
इत्युत्क्षिप्ता (३) एकैव ललितोत्क्षिप्ता रेचिता नृत्तगोचरा ।
इति रेचिता (४)
रेचिता, कुञ्चिता, भ्रुकुटी, चतुरेति सप्तप्रकारा भ्रूः । क्रमेण लक्षणमाहस्वाभाविकीति । स्वाभाविकी भ्रूः सहजा । असौ अकुटिलेषु ऋजुषु भावेषु प्रयोज्या ॥ -४३२, ४३३ ॥
इति सहजा (१) (सु०) पतितां लक्षयति-पतितेति । अधो याता भ्रूः पतिता । सा च उत्क्षेपे, विस्मये, हर्षे, रोषे, असूयायाम् , जुगुप्सायां च प्रयोज्या । उभे अपि भ्रुवौ हासघ्राणयोर्विधीयते ॥ ४३४, ४३४- ॥
इति पतिता (२) (क०) एकोरिक्षप्ताभ्रूविनियोगे-लीलाहेलयोरिति । तत्र लीला नाम योषितां पुंसां शारीरो भावविशेषः। यथाह तल्लक्षणं भावप्रकाशकारः
" मनो मधुरवागङ्गचेष्टितैः प्रीतियोजितैः । प्रियानुकरणं लीला सा स्यात्स्त्रीपुंसयोरपि" इति ॥ (पृ. ९)
Scanned by Gitarth Ganga Research Institute