________________
१६०
संगीतरत्नाकरः
स्वाभाविकी नता मन्दा विकृष्टा च विकूणिता ।। ४६५ ॥ सोच्छासेत्युदिता नासा पड़िधा सूरिशाङ्गिणा । स्वाभाविकी स्यादन्वर्था भावेष्वावेगवर्जिता ।। ४६६ ।। इति स्वाभाविकी (१)
मुहुः संश्लिष्टविश्लिष्टपुटा नासा नता मता । सोच्छ्वासाभिनये मन्दविच्छिन्नरुचिगोचरे ।। ४६७ ॥ इति नता ( २ )
1
तौ नटैः दुःखे कार्यों । इति क्षामौ ( ४ ) विकासं प्राप्तौ फुल्लौ । तौ प्रहर्षे कार्यौ । (५) स्वाभाविकौ समौ । तौ अनावेशेषु भावेषु कार्यौ । इति समौ (६) ॥ - ४६१-४६४-॥
इति षोढा कपोललक्षणम् । इति कपोलप्रकरणम् |
(क० ) अथ नासाभेदान् लक्षयितुमाह - स्वाभाविकी नतेत्यादि
॥ - ४६५-४७०- ॥
(सु० ) अथ नासामेदानाह - स्वाभाविकेति । स्वाभाविकी, नता, मन्दा, विकृष्टा, विकूणिता, सोच्छ्वासेति षड्भेदाः । तासां क्रमेण लक्षणमाहस्वाभाविकीति । अन्वर्था स्वभावावस्थिता स्वाभाविकी । सा आवेगवर्जिते भावे कार्या ॥ - ४६५, ४६६ ॥
इति स्वाभविकी (१)
(सु० ) नतां लक्षयति - मुहुरिति । मुहुः प्रतिक्षणं संश्लिष्टौ पुटौ यस्याः, सानता । सा च सोच्छ्रासाभिनये, मन्दविच्छिन्नरुचिरे च कार्या ॥ ४६७ ॥
इति नता ( २ )
Scanned by Gitarth Ganga Research Institute