SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः मुहुश्चलस्थिरा पार्धालोकिनी बहिरुन्मुखी । गूढावलोकिनी शीघ्रं विनिवृत्ता विलोकनात् ॥ ४०८ ॥ शङ्कायां शङ्किता दृष्टिरुक्ता निःशङ्कसूरिणा । इति शङ्किता (५) स्फुरत्संश्लिष्टपक्ष्माया सुखविश्रान्ततारका ॥ ४०९ ॥ मुकुला दृष्टिरानन्दे हृद्ययोः स्पर्शगन्धयोः । इति मुकुला (६) अर्धव्याकोशिते किंचिद् भ्रमन्त्यौ तारके पुटौ ॥ ४१० ॥ यत्रार्धमीलितौ सार्धमुकुलार्थे सुखप्रदे । ___ इत्यर्धमकुंला (७) तारका, पतितोर्ध्वपुटा ; पतिता चासौ ऊर्ध्वपुटा च तथाविधा दृष्टिः ललिता । सा च लज्जायां प्रयोज्या ॥ ४०७ ॥ इति लजिता (४) (सु०) शङ्कितां लक्षयति-मुहुरिति । मुहुः चलस्थिरा ; क्षणं चञ्चला, क्षणं स्थिरा, पालिोकिनी ; पार्श्वप्रदेशदर्शनीया, बहिरुन्मुखी ; बाह्योन्मुखी, गूढावलोफिनी ; गूढभावेनावलोकयन्ती, विलोकनात् शीघ्रं झटिति विनिवृत्ता दृष्टिः शङ्किता । सा च शङ्कायां प्रयोज्या ॥ ४०८, ४०८-॥ इति शङ्किता (५) (सु०) मुकुलां लक्षयति-स्फुरदिति । स्फुरत्संश्लिष्टपक्ष्माना; स्फुरन्ती संलग्ने पक्ष्माग्रे यस्याः; सुखविश्रान्ततारका ; सुखेन विश्रान्ता तारका कनीनिका यस्याम् ; तथाविधा दृष्टिः मुकुला । सा च आनन्दे ; हृद्यस्पर्शगन्धयोश्च प्रयोज्या ॥ -४०९, ४०९-॥ ___ इति मुकुला (६) (सु०) अर्धमुकुलां लक्षयति-अर्धेति । अर्धव्याकोशिते ; ईषद्विकास प्रापिते, किंचिद् भ्रमन्त्यो ; अल्पं भ्रमन्त्यौ, तारके कनीनिके पुटौ च ; यत्र Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy