SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः दृश्यादपसृते तारे किंचिन्मुकुलितौ पुटौ । दधत्यपाङ्गौ विच्छायौ पक्ष्माग्रस्पन्दने तथा ।। ४०४ ॥ दृष्टिः स्यान्मलिना स्त्रीणां विहृते सा प्रयुज्यते । प्राप्ते कालेऽप्यसंलापः प्रियेण विहृतं मतम् ।। ४०५ ॥ इति मलिना ( २ ) १४३ अदूरालोकिनी म्लानपुटाप्यलसचारिणी । चलत्तारा मनाक् कुञ्चत्प्रान्ता श्रान्ता श्रमे मता ।। ४०६ ।। इति श्रान्ता ( ३ ) मिथोऽभिगामिपक्ष्माग्राप्यधस्ताद्गततारका । पतितोर्ध्वपुटा दृष्टिर्लज्जायां लज्जिता मता ।। ४०७ ॥ इति लज्जिता ( ४ ) (सु०) मलिनां लक्षयति — दृश्यादिति । तारकाद्वयं दृश्यादपसृतम् ; पुटद्वयं किंचिन्मुकुलितम् ; अपाङ्गद्वयं विच्छायं प्राप्तम् ; तथा पक्ष्मणोरप्रद्वयं स्पन्दितं च यस्यां भवति सा दृष्टिर्मलिना । सा च स्त्रीणां विहृते प्रयोज्या । विहृतस्य लक्षणमाह - प्राप्तेति । संलापोचिते काले प्राप्ते सत्यपि प्रियेण साकमसंलापो विहृतमित्युच्यते ॥ ४०४, ४०५ ॥ इति मलिना ( २ ) (सु०) श्रान्तां लक्षयति- अदूरेति । अदूरालोकिनी; दूरालोकने असमर्था । म्लानपुटा ; म्लानपक्ष्मा । अलसचारिणी; अलससंचारा । चलत्तारा; चञ्चलतारका । मनाक् कुञ्चत्प्रान्ता ; ईषत् कुञ्चितौ भवनतौ प्रान्तौ यस्याः; तथाविधा दृष्टिः श्रान्ता । सा च श्रमे प्रयोज्या ॥ ४०६ ॥ इति श्रान्ता (३) (सु०) लज्जितां लक्षयति - मिथ इति । मिथः परस्परम्, अभिगामिपक्ष्मात्रा, अभिमुखगामिनी पक्ष्माग्रे यस्याः, अधस्ताद्गततारका ; अधोगत Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy