________________
सप्तमो नर्तनाध्यायः पतितोर्ध्वपुटा साम्रा शोकमन्थरतारका ॥ ३८६ ॥ नासाग्रमेवानुगता करुणा दृष्टिरुच्यते ।
इति करुणा (३) चकितद्विपुटा स्तब्धतारकात्यन्तलोहिता ॥ ३८७ ॥ रूक्षा भ्रुकुटिभीमोग्रा रौद्री दृष्टिरुदाहृता ।
___ इति रौद्री (४) अचञ्चला विकसिता गम्भीरा समतारका ॥ ३८८ ॥ दीप्ता संकुचितापाङ्गा वीरा धीरैरुदाहृता ।
समाविष्टा प्रविष्टा, विचित्राभ्यां भ्रान्ति प्राप्ता कनीनिका यस्याः; मन्दमध्यतीव्रतया, मन्दत्वेन, मध्यत्वेन, तीव्रत्वेन वा आकुञ्चितौ पुटौ यस्याः, तथाविधा दृष्टिः हास्या । सा च विस्मापने अभिनेया ॥ ३८५, ३८५- ॥
__इति हास्या (२) (सु०) करुणां लक्षयति-पतितेति । पतितं नम्रम् ऊर्ध्व पुटं यस्याः; अस्तुणा सहिता सास्रा; शोकमन्थरतारका, शोकेन मन्थरा स्थिरतारका कनीनिका यस्याः; नासाग्रमेव अनुगता दृष्टि: करुणा ॥ -३८६, ३८६- ॥
____ इति करुणा (३) (सु०) रौद्री लक्षयति-चकितेति । चकित द्विपुटा; चकिते भीते द्वे पुटे यस्याः; स्तब्धतारका ; स्तब्धा निश्चला कनीनिका यस्यामिति । अत्यन्तलोहिता; अत्यन्तमरुणा ; रूक्षा; नि:स्नेहा ; भ्रुकुटिभीमा ; भ्रुकुव्या वक्ष्यमाणलक्षणया, भीमा भयावहा; उग्रा; क्रूरा दृष्टि: रौद्री ॥ -३८७, ३८७- ॥
इति रौद्री () (सु०) वीरां लक्षयति-अचञ्चलेति । अचञ्चला; चञ्चलरहिता; विकसिता; विकास प्राप्ता ; गम्भीरा ; प्रसन्ना ; समतारका; समे तारके यस्याम् ।
Scanned by Gitarth Ganga Research Institute