________________
१३६
संगीतरत्नाकर:
वितर्किताभितप्ता च विषण्णा ललिताभिधा ।
आकेकरा विकोशा च विभ्रान्ता विप्लता परा ।। ३८१ ॥ त्रस्ता च मदिरेत्येता व्यभिचारिषु विंशतिः । सर्वास्ता मिलिताः सत्यः षट्त्रिंशद्दष्टयो मताः ।। ३८२ ॥ आपिबन्ती दृश्यं या सविकासातिनिर्मला । संक्षेपकटाक्षा सा कान्ता मन्मथवर्धिनी ॥ ३८३ || यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् ।
तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते || ३८४ ॥ इति कान्ता ( १ ) किंचिदन्तः समाविष्टविचित्रभ्रान्ततारका ।
आकुञ्चितपुटा मन्दमध्यतीव्रतया क्रमात् ।। ३८५ ।। विस्मापनेऽभिनेतव्ये हास्या दृष्टिः प्रशस्यते ।
इति हास्या (२)
वितर्किता, अभितप्ता, वितप्ता, ललिता, आकेकरा, विशोका, विभ्रान्ता, विप्लुता, त्रस्ता, मदिरेत्येता व्यभिचारिदृष्टयो विंशतिर्भवन्ति । ताः सर्वा मिलिताः षट्त्रिंशत् ॥ ३८०-३८२ ॥
(सु० ) एतासां लक्षणमाह-आपिवन्तीवेति । आसमन्तात् सादरं विलोकनमेव पानम् तच्च दृश्यम् पिबन्तीति च सविकासा अतिनिर्मला, या दृष्टिः भ्रूक्षेपेण कटाक्षेण च युक्ता जायते, मन्मथवर्धिनी च भवति, सा कान्ता । कटाक्षलक्षणमाह-यदिति । यः गतागस्य विभान्तिः स्थिरत्वम्, तत्र यद्वैचित्र्यं सौन्दर्य, तेन सह तारकयो: विवर्तनं चलनं भवति, तं कलाभिज्ञा: कटाक्षं प्रचक्षत इत्यन्वयः ॥ ३८३, ३८४ ॥
इति कान्ता ( १ )
(सु० ) हास्यां लक्षयति--- किंचिदिति । किंचित् अल्पमेव, अन्त:
Scanned by Gitarth Ganga Research Institute