________________
सप्तमो नर्तनाध्यायः
१३५ कान्ता हास्या च करुणा रौद्री वीरा भयानका ॥ ३७७ ॥ बीभत्सा चाद्भुतेत्यष्टौ द्रष्टव्या रसदृष्टयः । स्निग्धा हृष्टा तथा दीना क्रुद्धा दृप्ता भयान्विता ॥ ३७८ ॥ जुगुप्सिता विस्मितेति दृशोऽष्टौ स्थायिभावजाः। स्थायिष्वव्यभिचारित्वं प्राप्तेषु स्थायिदृष्टयः ॥ ३७९ ॥ शून्या च मलिना श्रान्ता लज्जिता शङ्किता तथा । मुकुला चाधेमुकुला ग्लाना जिह्मा च कुञ्चिता ।। ३८० ॥
(क०) अथोपाङ्गेषु प्रथमोद्दिष्टाया दृष्टेभैदानुद्दिशति-कान्ता हास्येस्येत्यादि । स्थायिष्वव्यभिचारित्वं प्राप्तेषु स्थायिदृष्टय इति । स्थायिषु रत्यादिस्थायिभावेषु अव्यभिचारित्वं प्राप्तेष्विति व्यभिचारित्वमप्राप्तेप्वित्यर्थः । रत्यादीनां व्यभिचारित्वप्राप्तिरपि शृङ्गारादिरसपर्यन्ततां विहाय विरुद्धभावान्तरबाध्यत्वेन यदैवंभूता रत्यादयो भवन्ति, तदा स्निग्धादयः स्थायिदृष्टयः । अन्यथा व्यभिचारित्वं प्रापितेष्विति व्यभिचारिदृष्टय एवेत्यर्थः । कान्तादीनां षट्त्रिंशदृष्टीनां लक्षणानि स्पष्टार्थानि ॥ -३७७-४३१- ॥
(सु०) अथोपाङ्गेषु दृष्टिं निरूययति-कान्तेति । कान्ता, हास्या, करुणा, रौद्री, वीरा, भयानका, बीभत्सा, अद्भुतेत्यष्टौ रसदृष्टयः । स्निग्धा, हृष्टा, दीना, कुद्धा, दृप्ता, भयान्विता, जुगुप्सिता, विस्मितेत्यष्टौ स्थायिदृष्टयः । ननु स्थायिभावानामेव रसत्वं तत्कथं रसदृष्टिभ्यः स्थायिदृष्टीनां भेदः ? अत्राहस्थायिष्विति । स्थायिनो यदा सरसतया विपाका भवन्ति, व्यभिचारित्वं प्राप्नुवन्ति; तदा रसदृष्टिभ्यो भिन्ना स्थायिदृष्टयो जायन्ते ॥ -३७७-३७९ ॥
(सु०) व्यभिचारिदृष्टीनां भेदानाह-शून्येति । शून्या, मलिना, श्रान्ता, लज्जिता, शङ्किता, मुकुला, अर्धमुकुला; ग्लाना, जिला, कुश्चिता,
Scanned by Gitarth Ganga Research Institute