________________
१३८
संगीतरत्नाकर:
औदार्यधैर्यगाम्भीर्यमाधुर्यललितान्यपि ॥ ३८९ ॥ तेजःशोभाविलासाख्यानष्टौ भेदान् विवृण्वती । इति वीरा (५) 'ततोदृत्तपुटात्यन्तचञ्चलोदृष्टत्ततारका ।। ३९० ।। दृश्यात्पलायमाने च भीत्या दृष्टिर्भयानका ।
इति भयानका (६)
दीप्ता ; उज्ज्वला, संकुचितापाङ्गा; संकोचं प्राप्तौ अपाङ्गौ यस्याम्, सा दृष्टि: वीरेति धीरैरुदाहृता । सा च औदार्यधैर्यगाम्भीर्यमाधुर्यललितादिभिर्लक्षितान्, तेज:शोभाविलासादिभिर्लक्षितांश्चाष्टौ भेदान् विवृणोति ॥ - ३८८,३८९ ॥ इति वीरा (५)
(सु०) भयानकां लक्षयति- ततेति । ततोद्वृत्तपुटा, ततं विस्तृतम्, उद्वत्तं परिवृत्तं पुटं यस्याम् । चञ्चलोर्ध्वगतारका ; चञ्चला कम्पिता, ऊर्ध्वगता तारका यस्याम् । दृश्यात्पलायमाने च दर्शनीयादपसरन्त्यौ च, भीत्या, भयान्विता दृष्टिः भयानका ॥ - ३९०, ३९० - ॥
इति भयानका (६)
1 स्तब्ध: .
'औदार्यादीनां लक्षणमुकं भावप्रकाशने यथा-प्रियालापस्मितोदारं दानमौदार्यमुच्यते । शुशुमेऽर्थे तद्वै व्यवसायादचालनम् । अविज्ञातेङ्गिताकारो भावो गाम्भीर्यमुच्यते । माधुर्य चेष्टितालाप स्पर्शानां स्पृहणीयता । चेष्टितं यस्य शृङ्गारमयं तललितं भवेत् । अवमानासह त्वं यत्तत्तेजः समुदाहृतम् । स्पर्धाधिक्रियते यत्र सा शोभेति प्रकीर्तिता । वृषयानं * स्मितालापो विलास इति कथ्यते ।
* सगर्वमन्दगमनम् ।
S
Scanned by Gitarth Ganga Research Institute