________________
१२४
संगीतरत्नाकरः ओतावत्सरिगोणीनां पदस्य मलपस्य च ॥ ३५० ।। गजरोपशमस्यान्ते खण्डेऽप्येलादिगामिनि । सालगस्थध्रुवाद्यन्ते यच्च पहरणं भवेत् ॥ ३५१ ॥
अनन्तमङ्गलग्राह्यलीलाविभ्रममण्डनाः ॥ नृत्तलक्ष्यविशेषेण प्राणसर्वस्वमेव च । यथार्ह ते प्रयुक्ताः स्युः कीर्तिमङ्गलदायकाः ।। बहुनात्र किमुक्तेन संध्याकालेषु सर्वदा । नानानृत्तकलोल्लासशालिनोऽपि महेशितुः ।। अलपद्मकसंज्ञास्ते संकीर्णा नेह लक्षिताः । अत्यन्तवल्लभाश्चैव सिद्धानां नाकिनामपि ॥ अतो वियुक्ता युक्ताश्च हस्ता नृत्ताश्रयाः परे । प्रसङ्गानुप्रसङ्गेन कोहलेन मयादिशत् ॥
यथालक्षणमाख्याता मुनिशार्दूल तत्त्वतः ।
इति कोहलशार्दूलसंवादे संगीतमेरौ युक्तायुक्तनृत्तहस्ताश्रयचालकभेदप्रभेदलक्षणं नाम द्वितीयमाहिकं समाप्तम् ।। -३४९-३४९- ॥
(क०) अथैषां चालकानां प्रयोगस्य विषयं दर्शयति-ओतेत्यादि । ओतादयो वाद्यप्रबन्धाः पूर्वमुक्ताः । गजरप्रबन्धाङ्गत्वेन चोपशम उक्तः । एतेषामन्ते खण्डे प्रयोज्या इति वक्ष्यमाणेन संबन्धः । एलादिगामिन्यपीति । एलादीन शुद्धान् गीतप्रबन्धान् गच्छतीत्येलादिगामी तस्मिन् । आत्रदिशब्देनान्त्यखण्डः समुच्चीयते । तथा सालगस्थध्रुवादीनामन्ते खण्ड इत्यनुषङ्गः । यच्च प्रहरणं वाद्यप्रबन्धविशेषः तदन्तखण्डे प्रयोज्याः । मतान्तरमाश्रित्याह
Scanned by Gitarth Ganga Research Institute