________________
१२५
सप्तमो नर्तनाध्यायः तदन्तखण्डेऽन्यत्रापि प्रोद्धते तुण्डकैशिके । कवितेऽपि प्रयोज्यास्ते नान्यत्रेत्यूचिरे परे ॥ ३५२॥
-अन्यत्रापीति । पर आचार्याः । अन्यत्रेति । धूवादीनामन्तिमखण्डव्यतिरिक्त इत्यर्थः । तुण्डकैशिके प्रोद्धत इति खण्ड इति विशेषपदं प्रकरणादनुषञ्जनीयम् । तुण्डकैशिक इति । तुण्डं मुखं प्रारम्भ इत्यर्थः । तत्र कैशिकं सुकुमारम्। अयमर्थः—यद्गीतखण्डं मुखे प्रारम्भे सुकुमारं भवति, पश्चाद्भागे प्रोद्धतं भवति । यद्वा मुखे प्रथमावृत्तौ सुकुमारं भवति, क्रमात् चरमावृत्तौ प्रोद्धतं भवति, तद्गीतखण्डं तुण्डकैशिकं प्रोद्धतमित्युच्यते । तत्रोद्धतांशे चालकाः प्रयोज्या इत्यर्थः । कवितेऽपीति । कवितं नाम वाद्यप्रबन्धविशेपः । तत्रापि बाहुल्याद्दीप्तं नृत्तमित्युक्तम् । तस्मिन्नशे प्रयोज्या इत्यनेन, यस्तु दीप्तनर्तनस्य विषयः, तत्रैव प्रयोज्य इति मन्तव्यम् । नान्यत्रेति; अन्यत्र सुकुमारप्रयोगविषये न प्रयोज्या इत्यूचिरे इत्यर्थः । कवितेऽपीत्यनेनोचिर इत्यस्य संबन्धः ॥ -३५०-३५२ ॥
इति बाहुप्रकरणम् । इति षोडशविधो बाहुः।
(सु०) संप्रति चालकानां प्रयोगमाह-ओतेति । वाद्याध्यायोक्तानां ओतावत्सरिगोणीनाम् , एलादिगामिनि; तथा सालगस्थध्रुवाद्यन्ते प्रयोज्याः। प्रहरणं वाद्यप्रबन्धविशेष:, तदन्तखण्डे प्रयोज्या इत्यर्थः। अन्यत्रेति । अन्यत्र ध्रुवादीनामन्तिमखण्डव्यतिरिक्त इत्यर्थः । तथा तुण्डकैशिके प्रोद्धते, कवितेऽपि ते प्रयोज्याः । परे आचार्या: नान्यत्रेति ऊचिरे ॥ -३५०-३५२॥
इति बाहुप्रकरणम् । इति षोडशविधो बाहुः ।
Scanned by Gitarth Ganga Research Institute