________________
१२३
सप्तमो नर्तनाध्यायः लुठितौ चेत्करौ तत्तु रथनेमिसमाह्वयम् ।
इतिरथनेमि (४७) प्रथमं स्वस्तिकी भूत्वा कुञ्चितावूर्ध्वगौ पुनः ।। तथा वामांसपर्यन्तं पर्यायाच्चेद्गतौ करौ । तत्स्वस्तिकत्रिकोणाख्यं क्षेमराजेन लक्षितम् ॥
इति स्वस्तिकत्रिकोणम् (४८) अन्तर्बहिश्चेद्वलितावूर्ध्वप्रोद्वेष्टितौ करौ । पर्यायापार्श्वयोस्तिर्यगेकस्मिन् लुठितोऽपरः ॥ स्याच्चेत्करस्तदुद्दिष्टं लतावेष्टितकाभिधम् ।
इति लतावेष्टितकम् (४९) विशिष्टवर्तिताद्यैश्च नवभिर्दशभिश्च वा ॥ उक्तैः संकरसंसृष्टिरूपेण परिकल्पितैः । आधम्भिल्लसमुत्क्षिप्तैस्ततः स्वस्तिकबन्धनैः ॥ अपराअपरावृत्तौ भूतलाभिमुखौ ततः । मण्डलौ च तिरश्चीनौ साविद्धावपविद्धकौ ॥ युगपत्क्रमशो वाथ तत्कालाई क्रियोचितौ। आन्दोलितक्रियायुक्तौ भवेतां यत्र वै करौ ।। नवरत्नमुखं तत्र प्राह लौहित्यभट्टकः ।
___इति नवरत्नमुखम् (५०) इतीदं तपतांश्रेष्ठ यदादिष्टं स्वयंभुवा ॥ लक्षणं चालकानां वै प्रत्यपादि मयाधुना । एते सौभाग्यविजयप्रस्तारामरभूरुहः ॥ देवानां भूसुराणां च पार्थिवानां प्रियकराः ।
Scanned by Gitarth Ganga Research Institute