________________
सप्तमो नर्तनाध्यायः लुठितः प्रसृतस्याने सदलत्वममुश्चतः । कूपरक्षेत्रमासाद्य लुठत्यन्योऽपि यत्र तु ॥ देवोपहारकं नाम तत्त्वविद्भिनिरूपितम् ।
इति देवोपहारकम् (३१) प्रथमं पार्श्वयोरेव प्रसृतौ द्विगुणौ ततः ॥ अन्योन्याभिमुखौ चैव पश्चात्स्वस्तिकबन्धनौ । प्रधावत: पुरोदेशं यत्र हस्तौ विलासतः ॥ तिर्यग्गतस्वस्तिकाग्रं तदुद्दिष्टं सुमन्तुना ।
इति तिर्यग्गतस्वस्तिकाप्रम् (३२) कस्यचिन्मणिबन्धे तु लुठितोऽन्यस्ततः करः ।। बहिर्मण्डलगः स्थित्वा तथान्तर्मण्डलैरपि । यत्र प्रवर्तते तत्तु मणिबन्धगतागतम् ॥
इति मणिवन्धगतागतम् (३३) अन्तर्बहिश्चक्रचरः कश्चिद्धस्तः पराङ्मुखः । अपरोऽलातचक्रस्य कुरुते च विडम्बनम् ॥ अलातचक्रकाख्यं तत्तद्विदः परिचक्षते ।
इत्यलातचक्रकम् (३४) पूर्व पार्श्वमुखावेव निर्गतौ तत्र वेगतः ॥ तीक्ष्णकूपरकावेव द्विगुणत्वावलम्बिनौ । संश्लिष्टावूर्ववदनौ भूतलाभिमुखौ ततः ॥ यत्र स्यातां करौ तत्तु व्यस्तोत्लतनिवर्तकम् ।
इति व्यस्तोत्प्लुतानिवर्तकम् (३५)
Scanned by Gitarth Ganga Research Institute