________________
१२०
संगीतरत्नाकरः प्रथमं स्वस्तिकं भूयो बहिरेव विनिर्गतौ ॥ वेगानिवृत्तावन्योन्यं सांमुख्यं भजतः करौ । यत्रोरभ्रकसंबाधं तदुक्तं तपतां वर ॥
__इत्युरभ्रसंबाधम् (३६) तिर्यगूर्व प्रथमतः कृत्वैकं नाभिदेशगम् । तिर्यपान्तिरायातं करमन्यं प्रकल्प्य च ॥ या क्रिया जायते सा तु तिर्यक्ताण्डवचालनम् ।
इति तिर्यक्ताण्डववालनम् (३७) ऊर्ध्वाधोवदनौ कृत्वा पर्यायेण विलासतः ।। तत्रैव मण्डलाकारभ्रान्तौ कृत्वा तु पूर्ववत् । शिरःक्षेने च कट्यां च पार्श्वयोर्गतिपूर्वकम् ।। यत्र स्यातां करौ तत्तु धनुर्वल्लीविनामकम् ।।
____ इति धनुर्वलीविनामकम् (३८) वर्तनास्वन्तिकं कृत्वा युगपत्पार्श्वयोर्द्वयोः ।। यदि स्यातां करौ प्राहुस्तायपक्षविलासकम् ।
इति तार्थ्यपक्षविलासकम् (३९) प्रथमं पार्श्वयोर्गत्वा प्रसार्य च विदिश्यनु ।। निबद्धस्वन्तिको तत्र कटीमौलिगतौ मिथः । वालव्यजनचालाख्यक्रियां पूर्ववदाश्रितौ ।। वर्तनास्वस्तिकं बद्ध्या भूतलाभिमुखौ ततः । समुत्थितौ मण्डलतः स्वस्तिकौ पतितावधः ॥ कृत्वैकं भ्रामितं चांसे तदन्यं रथचक्रवत् ।
Scanned by Gitarth Ganga Research Institute