________________
११८
संगीतरत्नाकरः आपादिकगतश्चाथ तत्रैवाबद्धमण्डलः ।। सव्यापसव्ययोश्चैव पार्श्वयोर्वर्तन क्रिया । दक्षिणो यत्र हस्तस्तु ततो वामांसमुद्यतः ॥ वेगाद्विदिशि गत्वात्र लुठितः सव्यपार्श्वगः । तदन्यस्मिन् विलुठितो यत्र नाभिसमीपगः ॥ मुरुजाडम्बरं नाम निर्णीतं यमिनां वर ।
इति मुरुजाडम्वरम् (२६) अंसान्तरक्षेत्रगतौ बाहू चेत्पार्श्वयोर्द्वयोः ॥ पतेतां युगपद्यत्र द्वारदामविलासकम् ।
इति द्वारदामविलासकम् (२७) बद्धस्वस्तिकयोः पार्श्वे तिर्यग्वेगात्प्रसर्पतोः ॥ एको निवृत्य सहसा यदि कर्णावतंसकः। धनुराकर्षणाख्यं तन्निर्णीतं भट्टतण्डुना ॥
इति धनुराकर्षणम् (२८) कटीक्षेत्रगतौ चाथ तिर्यद्विगुणचालितौ । अन्तरामण्डलभ्रान्तिकारिणौ बहिरेव वा ।। युगपञ्च करौ यत्र तच्च साधारणं स्मृतम् ।
इति साधारणम् (२९) समप्रकोष्ठवलनमन्वर्थमिह कीर्तितम् ।। अथवाविद्धकेन स्यादपविद्धेन वा च तत् ।
इति समप्रकोष्ठवलनम् (३०) अरालकपरावृत्त्या पार्श्वयोरपि च द्वयोः ।
Scanned by Gitarth Ganga Research Institute