________________
सप्तमो नर्तनाध्यायः लुठमाने तदन्यस्मिन्नाभिक्षेत्रसमीपगे । पर्यायाद्वर्तते रम्यं चतुष्पत्राउजमीरितम् ॥
इति चतुष्पत्राब्जम् (२०) मुष्टिरूपस्तु लुठितस्तदूर्ध्व चार्जवात्पुनः । गतागतः पार्श्वयोश्च तत्पश्चादग्रतो गतः ।। चलमाने तदेतस्मिन् पूर्वोक्तस्थानगामिनि । पर्यायेण करो यत्र मण्डलामाभिधं तु तत् ।।
इति मण्डलाग्रम् (२१) उत्प्रकोष्ठं च पर्यायादंसपर्यन्तकान्तरे । लुठितौ च तथाधस्ताद्गामिनौ च प्रभावतः ॥ भवतो यत्र तु करौ वालव्यजनचालनम् ।
इति वालव्यजनचालनम् (२२) यत्र त्रिकोणमर्यादामनुसृत्य प्रलोड्यते ॥ पुरस्तात्पार्श्वयोश्चैव करो मण्डलचारतः । तद्वीरुधबन्धाख्यमुद्दिष्टं भट्टतण्डुना ॥
इति वीरुधबन्धनम् (२३) प्रतिलोमानुलोमाभ्यामस्यैव खलु या क्रिया । विशृङ्गाटकबन्धाख्यं मतङ्गस्तदुवाच ह ।।
इति विशृङ्गाटकबन्धनम् (२४) वामदक्षिणयोर्यत्र करस्थस्य विलोडनम् । कुर्वन् गतागतं दिक्षु व्यर्थ वा वर्तते पुनः ॥. तद्वै कुण्डलिचाराख्यं प्रणीतं प्राच्यसूरिभिः ।
इति कुण्डलिचारकम् (२५)
Scanned by Gitarth Ganga Research Institute