________________
संगीतरत्नाकरः मणिबन्धप्रकोष्ठांसवर्तनावलितोद्धृतैः । सा च किंचिन्नतशिरःक्षेत्रोपरिविलोडनैः ।। परागधोमुखत्वेन लुठितैर्वा पुरो भुवि । वलितैरार्जवादन्यैः पाण्योः सव्यापसव्ययोः ॥ पार्श्वयोर्योगपद्येन नम्रभावात्क्रमेण वा। भूयते यत्र लुठितमंसवर्तनकं विदुः ।।
इत्यसवर्तनकम् (१७) द्विगुणोदश्चनेनैव क्रमादंसात्तु लोडितौ । पर्यायेण च कृत्वाथ कूपरस्वस्तिकात्मना । विलोड्य तत्रैव बहिः करं मुष्टिस्वरूपतः । अन्तनिवेश्य त्वरया लुठनात् त्र्यश्रभावतः ।। वलमाने तदन्यस्मिन् क्रमशः पार्श्वयोर्द्वयोः । तस्यैव च समुत्क्षेपः क्रियते यत्र लीलया ॥ मणिबन्धासिकर्षाख्यं तद्विदः प्रतिजानते ।
इति मणिबन्धासिकर्षम् (१८) शिरःक्षेत्रोपरिष्टात्तु मध्यादाकाशकस्य वा ।। विलोड्य मण्डलभ्रान्त्या पर्यायेण च पार्श्वयोः । करयोः कल्पते यत्र पतनोत्पतनामिका ।। क्रियासमभिहारेण क्रिया च द्रुतमानतः । कलविङ्कविनोदाख्यं चालनं तत्प्रचक्षते ।।
इति कलविङ्गविनोदम् (१९) पूर्वमूर्व प्रलुठितस्ततो मण्डलवर्तितः । तत्पश्चाच्चतुराशासु करो यत्र विलासतः ॥
Scanned by Gitarth Ganga Research Institute