SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः प्राप्तयोः स्वस्तिकत्वं प्राक्तिर्यगेको विलोलितः । पार्श्वयोमौलिपर्यन्तमूर्ध्वं चाधश्च चालनम् ॥ अन्यस्तु भजते यत्र तत्तु विश्लिष्टवर्तितम् । ___ इति विश्लिष्टवर्तितम् (१) नाभिक्षेत्रसमीपस्थे तिर्यग्लुठति चैकके ।। स्वस्यापरागवलनं रसवृत्तिसमुज्ज्वलम् । करयोर्यत्तु तत्प्रोक्तं वेपथुव्यञ्जकं पुनः ॥ इति वेपथुव्यजकम् (२) वामदक्षिणभागेन नाभिकण्ठप्रदेशयोः । लुठने मण्डलेनैव त्वपविद्धमिति स्मृतम् ।। इत्यपविद्धम् (३) नाभिक्षेत्रसमीपस्थे तिर्यग्लुठति चैकके ! अपरं तु पराचीनमान्दोलितककर्मणा ॥ नीत्वा वामांसपर्यन्तं बहिरेव प्रसार्य च । अमुमन्तः समाक्षिप्य मूर्ध्नि सव्यापसव्ययोः ।। विलोड्य पार्श्वयोर्मन्दं विलासेन तु यद्भवेत् । प्रकीर्तितं तु तद्धीरैर्लहरीचक्रसुन्दरम् ।। इति लहरीचक्रसुन्दरम् (४) एकस्य पार्श्वचलने विद्युद्दामविडम्विनः । आनुगुण्येन हस्तेन योगो विच्युतिपूर्वकः ।। पौनः पुन्येन यस्मात्तु वर्तनास्वस्तिकं मतम् । अथवा तुम्बिखण्डाब्जवर्तनाभिस्तु तद्भवेत् ।। इति वर्तनास्वस्तिकम् (५) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy