SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ११२ संगीतरत्नाकरः तिर्यग्गतस्वस्तिकामं मणिबन्धगतागतम् । अलातचक्रकाख्यं च व्यस्तोत्प्लुतनिवर्तकम् ॥ तथोरभ्रकसंबाधं तिर्यक्ताण्डवचालनम् । धनुर्वल्लीविनामाख्यं तायपक्षविलासितम् ॥ कररेचकरत्नाख्यं शरसंधाननामकम् । मण्डलाभरणं चैवमंसपर्यायनिर्गतम् ।। अष्टबन्धविहारं च कर्णयुग्मप्रकीर्णकम् । पर्यायगजदन्ताख्यं रथनेमिसमाहृयम् ॥ स्यात्स्वस्तिकत्रिकोणं च लतावेष्टितकं तथा । नवरत्नमुखं चेति पञ्चाशद्धव चालकाः ॥ एतेषामेव मुख्यत्वं मुनेत्तकलासु वै। किं त्वमी केचनान्वर्था नामगम्यास्तु केचन ।। केचित्प्रायोगिकास्तद्वदपरे सांप्रदायिकाः । अन्येऽपि बहवः पूर्व प्रयुक्ता भट्टतण्डुना ।। अन्योन्यव्यतिहारेण तिलतण्डुलवर्तना । नृत्तमङ्गलशास्त्रे तु शतं सन्त्येव चालकाः ।। नारदेनापि मुनिना तथा सप्तशतं मुने । देशीनृत्तसमुद्राख्ये कीर्तिताश्चालकाश्च वै ॥ सहस्त्रं चालकास्स्वन्ये ताण्डवे शंभुनोदिताः । अतोऽनन्तत्वमेतेषां तत्तच्छास्त्र विकल्पनात् ॥ किं तु लोके प्रयोक्तृणां कालतोऽल्पधियामिह । तेषु तेषु विशेषेण कररेचकराशिषु ॥ सारसारतरास्त्वेते वेधसा भव्यचेतसा । दनो घृतमिवोदीर्णाः सुबोधाय च चालकाः ॥ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy