________________
सप्तमो नर्तनाध्यायः
१११ लनात्मकरित्यर्थः । पृथग्भूताः क्रियन्ते चेत्तदा लक्ष्यज्ञैश्वालका इति कीर्तिताः । तेषां चालनाश्रयत्वाचालकसंज्ञा वेदितव्या । तेषां लक्ष्यप्रसिद्धत्वात्ते तत एवावगन्तव्या इत्यत्र ग्रन्थकारेण नोक्ताः । तेषां केषांचित्स्वरूपपरिज्ञानाय कोहलोक्तानि लक्षणानि लिख्यन्ते । यथा शार्दूलमुनिना पृष्टः कोहल उवाच --
" चालकानां स्वरूपं वै समाहितमनाः शृणु । तत्र क्रिया मनोहारी वाद्ये चालनमुच्यते ॥ अनेन रहितं नृतं निष्प्राणतनुव वम् । विश्लिष्टवर्तितं पूर्व वेपथुव्यञ्जकं तथा ॥ अपविद्धं ततः पश्चालहरीचक्रसुन्दरम् । वर्तनास्वस्तिकं चैव संमुखीनरथाङ्गजम् ।। पुरोदण्डभ्रमाख्यं च त्रिभङ्गीवर्णसारकम् । डोलं नीराजनं चैव स्वस्तिकाश्लेषचालनम् ॥ मीथः सवीक्ष्यबाह्यं च वामदक्षविलासितम् । मौलिरेचितकं चैव वर्तनाभरणं ततः ॥ आदिकूर्मावताराख्यमंसवर्तनकं तथा । मणिबन्धासिकर्षाख्यं कलविङ्कविनोदितम् ।। चतुष्पत्राव्जसंज्ञं च मण्डलामाभिधं तथा । वालव्यजनचालाख्यं तथा वीरुधबन्धनम् ।। विशृङ्गाटकबन्धाख्यं पश्चात्कुण्डलिचारकम् । मुरुजाडम्बरं पश्चाद्वारदामविलासकम् ॥ धनुराकर्षणं चैव साधारणमतः परम् । समप्रकोष्ठवलनं तथा देवोपहारकम् ॥
Scanned by Gitarth Ganga Research Institute