SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ११० संगीतरत्नाकर: ते रेखामनतिक्रम्य भूरिभङ्गिभृतो भुजाः ।। ३४९ ।। रेच्यन्ते यदि लक्ष्यज्ञैश्वालकाः कीर्तितास्तदा । व्यावर्तिर्तोऽन्तर्गात्रं चेदलपल्लवहस्तकः । पराङ्मुखोऽपविद्धः स्यात्कथिता गात्रवर्तना ।। इति गात्रवर्तना (२३) गात्रस्य प्रातिलोम्येन पाणिराक्षिप्य वर्तते । अलपल्लवसंज्ञश्रेत्प्रतिवर्तनिका तदा ॥ इति प्रतिवर्तनिका (२४) अन्याश्च कथिताः सप्त वर्तना नृत्तवेदिभिः । वर्तना या शिरस्थाद्या द्वितीया तिलकस्य च ॥ वर्तना नागबन्धाख्या स्यात्सिंहमुखवर्तना । वैष्णव्येा तलमुखी सप्तमी कलशामिधा ॥ नाममात्र प्रसिद्धास्तास्तैरेव स्फुटलक्षणाः । इति वर्तनाः । प्रकृतमनुसरामः || ३४८, ३४८- ॥ (सु० ) प्रकरणमुपसंहरति - वाहूनामिति । बाहुभेदानां च समस्तव्यस्तयोजनात् क्रमात् शीघ्रमध्यविलम्बितादिवैचित्र्यभेदेन बहवो भेदा भवन्ति । तस्मात् बहवो वर्तनाः शोभाभरसंभृताः सत्यश्चतुरैरूह्याः । रेखामिति । रेखामनतिक्रम्य अन्येन भूरिभङ्गिभृतः बहुचातुरीभूता एते भुजा:, यदि रेच्यन्ते वक्ष्यमाणरेचकयुक्ता भवन्ति, तदा लक्ष्यज्ञे: चालका इत्युच्यन्ते । ॥ ३४८, ३४९- ॥ (क०) ते रेखामित्यादि । ते षोडश भुजा रेखां शोभामनतिक्रम्यापरित्यज्य यदि भूरिभङ्गिभृतः सन्तो रेच्यन्ते चेत्, बहुविधैः प्रकारैश्व Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy