SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १०९ सप्तमो नर्तनाध्यायः पताको मणिबन्धस्थौ शिथिलौ स्वस्तिकौ पुनः ॥ कथितौ पल्लवौ तौ हि ख्याता पल्लववर्तना । इति पल्लववर्तना (१८) व्यावर्तितेन हस्तश्चेदलपल्लवशंसिता ॥ स्वपार्श्ववक्षसः प्राप्य प्रसारितभुजो भ्रमन् । अरालं दधदावेष्टकरणेन श्रयन्नरः ॥ तदानीमेव पार्श्व स्वमन्यो गच्छति पूर्ववत् । मण्डलेन ततोऽप्येवमुरःपार्श्वेऽर्धमण्डलौ ॥ तयोर्यैषा क्रिया सा स्यादर्धमण्डलवर्तना । इत्यर्धमण्डलवर्तना (१९) उद्वेष्टितेन निष्पन्नौ स्यातां चेदलपल्लवौ ॥ वक्षसः स्कन्धयोरूर्ध्वप्रसारितयुतावुभौ । स्कन्धाभिमुखमाविद्धौ वलितौ चाङगुलीदले ॥ अलपल्लवितौ प्राहुर्घातवर्तनिकां परे' । इति घातवर्तनिका (२०) एतावेव चलौ मूर्धक्षेत्रगौ ललिता मता ॥ खटकायौ शिरोदेशे लग्नाग्रौ तां परे जगुः । इति ललितवर्तनिका (२१) कूर्परस्वस्तिकाकारवर्तनाद्वलिता मता ॥ अन्ये त्वाचक्षतेऽन्योन्यलमानौ खटकामुखौ । ऊर्ध्वगौ पृष्ठतो नम्रकूर्परौ वलितेति च ॥ __ इति चलितवर्तना (२२) परे आचार्या अलपल्लववर्तनां प्राहुः। Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy