SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः अन्योन्याभिमुखे स्यातां व्यश्रं चलितरेचितौ । पार्श्वगावान्तरावृत्त्या द्विगुणौ तीक्ष्णकूर्परम् ॥ पूर्ववद्वलितौ यत्र करौ सौन्दर्यशालिनौ । संमुखीनरथाङ्गं तन्निर्दिष्टं तपतां वर ॥ इति संमुखीनरथाङ्गम् (६) कृत्वैकं मुष्टिरूपेण तिर्यङ्मुखतयापि च । तस्यैव बहिरन्तश्च लुठितोऽन्यस्य लीलया ॥ पुरो निःसारणं पाण्योः पर्यायेण च यत्र तु । पुरोदण्डभ्रमं तत्तु निर्दिष्टं पूर्वसूरिभिः ।। ___इति पुरोदण्डभ्रमम् (७) पूर्वपार्श्वेण विदिशि तिर्यक्चेन्मण्डलात्मना । या क्रिया जायते पाण्योः पर्यायाधुगपञ्च वा ॥ त्रिभङ्गीवर्णसरकं चालनं चेति सा स्मृता । इति त्रिभङ्गीवर्णसरकम् (6) ऊर्ध्वाधोवदनं व्यश्र लुठतो यत्र लीलया ॥ पर्यायण करौ सौम्यं डोलं तत्परिकीर्तितम् । इति डोलम् () प्राप्तौ स्वस्तिकतामेव बहिरेव च निःसृतौ ॥ अन्तस्तिर्यक्चक्रभावाच्छीर्षे सव्यापसव्ययोः । लुठतो यत्र युगपत्करौ नीराजितं तु तत् ॥ इति नीराजितम् (१०) करयोः स्वस्तिकाश्लेषसारिणोरंसदेशतः । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy