________________
१०४
संगीतरत्नाकर:
'स्यात्पक्षानुकृतौ माने भूस्थनिर्देशने क्रमात् ।। ३४६ ।।
इति सरलः (१४)
गतावान्दोलितोऽन्वर्थः
इत्यन्दोलित : (१५)
बाहुरुत्सारितः पुनः । स्वपार्श्वमन्यतो गच्छञ्जनतोत्सारणे भवेत् ॥ ३४७ ॥
इत्युत्सारित: (१६)
इति षोडशविधो बाहु: ।
इति । अत्र त्रीणि लक्षणानि द्रष्टव्यानि ; यथा पार्श्वयोः प्रसारितः सरलः ; ऊर्ध्वं प्रसारितः सरलः ; अधस्तात्प्रसारितश्च सरल इति । एकलक्षणत्वे हि; ' स्यात्पक्षानुकृतौ माने भूस्थनिर्देशने क्रमात् ' इति क्रमाद्विनियोगभेदं न ब्रूयात् ॥ ३४६ ॥
इति सरल: (१४)
(सु० ) सरलं लक्षयति - सरल इति । पार्श्वयोरूर्ध्वमधस्ताच्च प्रसारितो बाहुः सरलः । स च प्रज्ञाकृते, माने, भूस्थनिर्देशे च प्रयोज्यः ॥ ३४६ ॥ इति सरल : (१४)
लक्षयति- गताविति । गतौ आन्दोलितो
(सु० ) आन्दोलितं
ऽन्वर्थः ॥ - ३४६ ॥
इत्यन्दोलित : (१५)
(सु० ) उत्सारितं लक्षयति — बाहुरिति । स्वपार्श्वमन्यतो गच्छन् उत्सारितः । स च जनताया उत्सारणे प्रयोज्यः ॥ ३४६-, ३४७ ॥
इत्युत्सारितः (१६) इति षोडशविधो बाहु: ।
1
स स्यात्प्रज्ञाकृते माने इति सुधाकर:.
Scanned by Gitarth Ganga Research Institute