________________
सप्तमो नर्तनाध्यायः अथ वर्तनाः
बाहूनां करणेनाथ समस्तव्यस्तयोजनात् । क्रमाद्रुतादिवैचित्र्याज्जायन्तेऽत्र सहस्रशः ॥ ३४८ ॥ वर्तनाश्चतुरैरूह्यास्ताः शोभाभरसंभृता ।
(क०) वाहूनामित्यादि । बाहूनामुक्तानां षोडशविधानां करणे. नावेष्टितादिपूर्वकव्यापारेण । समस्तव्यस्तयोजनादिति । द्वित्रिप्रभृतीनामेकैकरूपाणां समस्तानां व्यस्तानां वा योजनात् मिश्रणात् । क्रमादद्वतादिवैचियादिति । आदिशब्देन मध्यविलम्बितौ गृह्यते । द्रुतादीनां लयानां वैचित्र्यं नाम यतिविशेषरूपेणावस्थानम् । तस्मात्सहस्रशो वर्तना जायन्ते । वर्तनाः शोभाभरसंभृताः सत्यश्चतुरैरूह्या भवन्ति । अत्रास्माभिर्न प्रपञ्च्यत इत्यर्थः । ग्रन्थकारणानुक्तानामपि तासां स्वरूपपरिज्ञानार्थ कोहलोक्ताः काश्चन वर्तनाः कथ्यन्ते । यथा-अथ वर्तनाः
पताकारालयोः पूर्व शुकतुण्डालपमयोः । वर्तना खटकस्यापि पश्चान्मकरवर्तना ॥ ऊर्ध्ववर्तनिकाविद्धवर्तना रेचिताह्वया । नितम्बकेशबन्धाख्ये फालवर्तनिका ततः ॥ कक्षवर्तनिकोरःस्थवर्तना खड्गवर्तना। पद्मवर्तनिका दण्डवर्तना पल्लवाभिधा ॥ अर्धमण्डलिका घातवर्तना ललिताभिधा । वलिता गात्रपूर्वा च वर्तना प्रतिवर्तना ।।
चतुर्विंशतिरित्युक्ता वर्तना भट्टतण्डुना । गम्येते.
Scanned by Gitarth Ganga Research Institute