________________
१०२
संगीतरत्नाकर:
निष्क्रामन्मणिबन्धस्थवर्तनामाश्रितो भुजः ।। ३४२ ।।
उद्वेष्टितो भवेत्
इत्युद्वेष्टित: ( ९ )
पृष्ठानुसारी पृष्ठतो गतः । भवेत्तूणशराकर्षे वीटिकाग्रहणे च सः || ३४३ ॥ इति पृष्ठानुसारी (१०)
मस्तकोपरि स्वस्तिकाकार विन्यस्तावत्तानितहस्ततलौ बाहू लोकप्रसिद्धौ । परीरम्भे स्वसंमुखहस्ततलौ स्वस्वपार्श्वात्पार्श्वान्तरगतौ बाहू प्रसिद्धौ । अभिवादने तु तादृशावधोमुखहस्ततलौ बाहू प्रसिद्धौ । एवं हस्ताद्यभिनयेष्वपि प्रचारविशेषानभिधानेऽपि विनियोगवशाद्विशेषो द्रष्टव्यः ॥ ॥ - ३४१, ३४१- ॥
इति स्वस्तिकः ( 2 )
(सु० ) स्वस्तिकं लक्षयति - स्वस्तिक इति । लग्नयोः सङ्गतयोः बाहोः पार्श्वव्यत्यासतः स्थितौ सत्यां स्वस्तिको भवति । स च भानोरुपस्थाने ; परिरम्भे ; अभिवादने च प्रयोज्यः ॥ - ३४१, ३४१- ॥ इति स्वस्तिक : (८)
(सु० ) उद्वेष्ठितं लक्षयति-- निष्क्रामभिति । मणिबन्धस्थां पूर्वोक्तवर्तनामाश्रित्य निष्क्रामन् भुज उद्वेष्टितः ॥ ३४२, ३४२ ॥
इत्युद्वेष्टित: ( ९ )
(सु० ) पृष्ठानुसारिणं लक्षयति--पृष्ठानुसारीति । पृष्टतो गतः पृष्ठानुसारी । स च तूणात् शराकर्षे, वीटिकाग्रहणे च प्रयोज्यः ॥ - ३४२, ३४३ ॥ इति पृष्ठानुसारी (१०)
Scanned by Gitarth Ganga Research Institute