________________
सप्तमो नर्तनाध्यायः अथाग्रदेशमनुधावन्प्रसारितः ॥ ३३९ ।।
इति प्रसारित: (५) वक्षःक्षेत्राद्विनिर्गत्य वक्षःप्रत्यागतोऽश्चितः ।
___ इत्यचितः (६) उच्यते मण्डलगतिः सर्वतो भ्रमणाद्भजः ॥ ३४० ॥ खड्गादिभ्रामणे चास्य विनियोगं प्रचक्षते ।
इति मण्डलगतिः (७) स्वस्तिको लग्नयो होः पार्श्वव्यत्यासतः स्थितौ ॥ ३४१ ॥ स स्याद्भानोरुपस्थाने परिरम्भेऽभिवादने ।
इति स्वस्तिः (८) (सु०) अपसारितं लक्षयति-अथेति । ऊर्ध्वदेशमनुधावन् प्रसारितो भवति ॥ -३३९ ॥
इति प्रसारितः (५) (सु०) अञ्चितं लक्षयति-वक्षःक्षेत्रादिति । यत्र बाहुः वक्षःक्षेत्रात् विनिर्गत्य, वक्षःप्रत्यागतश्चेत्, अञ्चितः ॥ -३४० ॥
___ इत्यञ्चितः (६) (सु०) मण्डलगतिं लक्षयति-उच्यत इति । सर्वतो भ्रान्तो भुजः मण्डलगतिः । अस्य च खड्गादिभ्रामणे विनियोग प्रचक्षते ॥ -३४०, ३४०-॥
इति मण्डलगतिः (७) (क०) स्वस्तिकबाहुविनियोगे-स स्याद्भानोरूपस्थाने परिरम्भेऽभिवादन इत्यत्र हस्तप्रचारविशेषानभिधानेऽपि लोकप्रसिद्धभानूपस्थानादिविनियोगवशात्तदुचितः प्रचारो द्रष्टव्यः । तथाहि भानूपस्थाने
Scanned by Gitarth Ganga Research Institute