________________
१०२
संगीतरत्नाकरः अधोमुखो महीश्लेषी
इत्यधोमुखः (२)
तिर्यक्पार्श्वगतो भवेत् ।। ३३८ ॥
इति तिर्यग्गतः (३) बाहुमण्डलवद्गत्या वक्षःक्षेत्राद्विनिर्गतः । अपविद्धः
इत्यपविद्धः (४) (सु०) अधोमुखं लक्षयति-अधोमुख इति । महीश्लेषी ; महीं पृथ्वी श्लिष्यति तया सह संयोग प्राप्नोति ; स अधोमुख इत्युज्यते ॥ -३३८ ॥
___इत्यधोमुखः (२) (१०) तिर्यग्गतं लक्षयति-तिर्यगिति । पार्श्वगतः, पार्श्व प्राप्त: तिर्यगित्युज्यते ॥ -३३८ ॥
इति तिर्यग्गतः (३) (क०) अत्रापविद्धबाहुलक्षणे-मण्डलवद्गत्या वक्षःक्षेत्राद्विनिर्गत इत्यादि । मण्डलमस्या अस्तीति मण्डलवती । सा चासौ गतिश्चेति कर्मधारयः । " पुर्वकर्मधारयजातीयदेशीयेषु (अष्टा० ६.३-४२) इत्यादिना पुंवद्भावे सति मण्डलवद्गतिरिति रूपम् । तच्च मण्डलमत्र बाहोरपविद्धसंज्ञानुसारेण बहिर्मुखमेव मन्तव्यम् । अन्यथा 'वक्षःक्षेत्राद्विनिर्गतः' इत्येतल्लक्षणं नोपपद्यते ॥ ३३८, ३३९- ॥
___इत्यपविद्धः (४) (सु०) अपविद्धं लक्षयति-बाहुरिति । यत्र बाहुः मण्डलवद्गत्या; मण्डलाकारया गत्या वक्ष:क्षेत्रात् विनिर्गतः : सोऽपविद्धः ॥ ३३८-, ३३९ ॥
इत्यपविद्धः (१)
श
". (२)
Scanned by Gitarth Ganga Research Institute