________________
सप्तमो नर्तनाध्यायः
उन्नतोर्ध्वानता ग्रीवालंकारोर्ध्व प्रदर्शने ।
इत्युन्नता ( ९ )
अथ बाहुभेदा:
ऊर्ध्वस्थोऽधोमुखस्तिर्यगपविद्धः प्रसारितः ।। ३३५ ।। अञ्चितो मण्डलगतिः स्वस्तिको द्वेष्टितावपि । पृष्ठानुसारीत्युदितो बाहुर्दशविधो बुधैः ।। ३३६ ।। आविद्धः कुञ्चितो नम्रः सरलान्दोलितावपि । उत्सारित इति प्राहुर्वाहून्षडपरान्परे ।। ३३७ ।। शीर्षादूर्ध्वं व्रजन्वारूर्ध्वस्थस्तुतदर्शने ।
इत्यूर्ध्वस्थः (१)
(सु०) उन्नतां लक्षयति — उन्नतेति । उर्ध्वानता ग्रीवा उन्नता । सा च अलंकारेण ऊर्ध्वप्रदर्शने प्रयुज्यते ॥ ३३४ - ॥
९९
इत्युत्रता ( ९ ) इति नवविधा ग्रीवा । इति श्रीवाप्रकरणम्
-३३५-३३८- ॥
(क) अथ बाहुभेदानुद्दिशति - ऊर्ध्वस्थोऽधोमुख इत्यादि ॥
(सु०) बाहुभेदानाह - ऊर्ध्वस्थ इति । ऊर्ध्वस्थः, अधोमुख, तिर्यगपविद्ध:, प्रसारितः, अञ्चितः, मण्डलगतिः, स्वस्तिकः, उद्वेष्टितः, पृष्ठानुसारीति दशाविधो बाहु: । मतान्तरमाह - आविद्ध इति । आविद्ध:, कुञ्चितः, नम्रः, सरल:, आन्दोलितः, उत्सारित इत्यन्यदपि बाहुषटकं परे प्रोचुः । क्रमेण लक्षणमाह - शीदिति । शीर्षात् ऊर्ध्वं गतो बाहु: उर्ध्वस्थः । स च तुङ्गदर्शने प्रयोज्यः ॥ - ३३५-३३७- ॥
यूथ : (१)
Scanned by Gitarth Ganga Research Institute