________________
सप्तमो नर्तनाध्यायः ग्रीवा त्वभिमुखीभूय निवर्तेत यदा तदा । निवृत्तेत्युच्यते सा स्यात्स्वस्थानाभिमुखादिषु ॥ ३३१॥
इति निवृत्ता (२) पार्थोन्मुखी तु वलिता ग्रीवा भङ्गे तथेक्षणे ।
इनि वलिता (३) रेचिता विधुतभ्रान्ता वर्तुले मथने तथा ॥ ३३२ ॥
___ इति रेचिता (४)
(सु०) एवं सप्ताङ्गानि निरूप्य प्रत्यङ्गानि निरूपयिषुः प्रथमनिर्दिष्टग्रीवाभेदानाह–समेति । समा, निवृत्ता, वलिता, रेचिता, कुञ्चिता, अञ्चिता, त्र्यश्रा, नता, उन्नता इति नवविधा ग्रीवा । क्रमेण लक्षणमाह-समेति । स्वाभाविकी ग्रीवा समा । सा च ध्याने, जपे, स्वाभाविके कार्ये च प्रयोज्या ॥ -३२९, ३३०॥
इति समा (१) (सु०) निवृत्तां लक्षयति-ग्रीवा इति । यदा ग्रीवा अभिमुखीभूय निवतेत, तदा निवृत्ता भवति । सा स्वस्थानाभिमुखादौ प्रयोज्या ॥ ३३१ ॥
इति निवृत्ता (२) (सु०) वलितां लक्षयति-पाोन्मुखीति । पाश्र्वोन्मुखी ग्रीवा वलिता । सा च भङ्गे, कौटिल्ये, अथवा पलायने, ईक्षणे, पार्श्वपादावलोकने च प्रयोज्या ॥ ३३१-॥
इति वलिता (३) (सु०) रेचितां लक्षयति--रेचिता इधि । विधुता भ्रामिता ग्रीवा रेचिता । सा च वर्तुले, मथने च प्रयोज्या ॥ -३३२ ॥
इति रेचिता (४)
Scanned by Gitarth Ganga Research Institute