________________
९६
संगीतरत्नाकरः मूर्छायां चाथ कर्तव्यौ लोलितौ विटनर्तने ।। ३२८ ॥ नृत्तज्ञैर्गदितौ हास्ये हुडकावाद्यवादने ।
___ इति पञ्चधा स्कन्धौ।
इति सप्ताङ्गानि । अथ ग्रीवाभेदाः
समा निवृत्ता वलिता रेचिता कुश्चिताश्चिता ।। ३२९ ॥ त्र्यश्रा नतौनता चेति ग्रीवा नवविधा भवेत् । समा स्वाभाविकी ध्याने जपे कार्ये स्वभावजे ॥ ३३० ॥
इति समा (१) लक्षितौ प्रयोज्यः । इत्यग्रगः (११) पाणिगं लक्षयति-पृष्ठत इति । पार्या पृष्ठतोऽपसरन् पादः पाणिग: । इति पाणिगः (१२) पार्श्वगं लक्षयति--स्थित इति । पार्वोपरि स्थितः, पार्श्वगामी वा पार्श्वगः । इति पार्श्वगः (१३) ॥ -३१२-३२५ ॥
____ इति त्रयोदश चरणभेदाः । (क०) अथ प्रथमोद्दिष्टाया ग्रीवायाः प्रभेदानुद्दिशति-समा निवृत्तेत्यादि ।। -३२९-३३४- ॥
(सु०) स्कन्धभेदानाह-एकोच्चाविति । एकोच्चौ, कर्णलग्नौ, उच्छितो, स्रस्तौ, लोलिताविति पञ्चविधौ स्कन्धौ । तेषां लक्षणानि नाम्नैव प्रकटीकृतानि । प्रथमो मुष्टिकुन्तप्रहारयोः ; द्वितीय, अश्लेषे, शिशिरे च ; तृतीयो हर्षगर्वादौ; चतुर्थो दुःखे, मदे, मूर्छायां च ; पञ्चमो विटनर्तने, हास्ये, हुडुक्कावादने च प्रयोज्यः ॥ ३२६-३२८- ।।
इति पञ्चधा स्कन्धौ। इति सप्ताङ्गानि ।
Scanned by Gitarth Ganga Research Institute