________________
संगीतरत्नाकरः यदि पादतलाग्रेण स्थित्वा भूमौ निपात्यते । असकृद्धा सकृत्पाणिर्भवेदुद्घट्टितस्तदा ॥ ३२१ ॥
इत्युद्घट्टितः (६) पार्ष्या धरामवष्टभ्य तामग्रेण निहन्ति यः । ताडितश्चरणः स स्यात्प्रयोज्यः क्रोधगर्वयोः ॥ ३२२ ॥
इति ताडित: (७) घ्नन्मुहुर्घटितोत्सेधोऽग्रपाणिभ्यां भुवं क्रमात् ।
___ इति घटितोत्सेध: (८) घट्टितः क्षितिघाती स्यात्पार्ण्यध्रिः प्रेरणेन सः॥ ३२३ ॥
इति घट्टितः (९) यस्तिरचा तलेनोवी प्रमृद्गाति स मर्दितः ।
इति मर्दित: (१०)
ग्रहणे च विनियुज्यते । इति कुञ्चित: (३) सूची लक्षयति-वाम इति । वामः पाद: स्वाभाविकः, अन्यस्तु भूमौ अङ्गुष्ठाग्रेण संस्थितः, उत्क्षिप्तेतरभागो वा भवति, सा सूची । असौ नूपुरबन्धने कार्या । इति सूची (४) अप्रतलसंचरं लक्षयति-यत्रेति । यत्र पाणि: उत्क्षिप्तः, अङ्गुष्ठः प्रसृतः, तथा अगुल्यो न्यञ्चिताः, सोऽप्रतलसंचरः । स च प्रेरणे, कुट्टने, स्थाने, पीडने, भूमिताडने, भूस्थितापसरणे, रेचके, भ्रमणे, मदे च कार्यः । इत्यग्रतलसंचरः (१) उद्घट्टितं लक्षयति-यदीति । यत्र भूमौ पादतलाग्रेण स्थित्वा पाणिः असकृद्वा सकृद्वा निपात्यते, स उद्घट्टितः । इत्युद्धट्टित: (६) ताडितं लक्षयतिपाष्र्या इति । यत्र पार्या भूमिमवष्टभ्य अग्रेण भूमिस्ताड्यते स ताडितः । स च क्रोधगर्वयोः प्रयोज्य: । इति ताडित: (७) घटितोत्सेधं लक्षयति
Scanned by Gitarth Ganga Research Institute