________________
९३
सप्तमो नर्तनाध्यायः कुश्चिताङ्गुलिरुत्क्षिप्तपाणिर्मध्ये च कुञ्चितः । कुश्चितः 'स्यादतिश्रान्तगतौ तुङ्गस्य च ग्रहे ।। ११७ ॥
___ इति कुश्चितः (३) वामः स्वाभाविकोऽन्यस्तु भुव्यङ्गुष्ठाग्रसंस्थितः । उत्क्षिप्तेतरभागोऽसौ सूची नूपुरवन्धने ॥ ३१८ ॥
___ इति सूची (४) यस्योत्क्षिप्ता भवेत्पाणिरङ्गुष्ठः प्रसृतस्तथा । अङ्गुल्यो न्यश्चिताः स स्यात्पादोऽग्रतलसंचरः ॥ ३१९ ॥ प्रेरणे कुट्टने स्थाने पीडने भूमिताडने । भूस्थापसारणे स स्याद्रेचके भ्रमणे मदे ।। ३२० ।।
इत्यप्रतलसंचर: (५) इति । ताडितः, घटितोत्सेध:, घट्टितः, मर्दितः, अग्रगः, पाणिगः, पार्श्वग इति सस पादभेदा भवन्ति । एवं त्रयोदश भेदाः । तेषां क्रमेण लक्षणमाहस्वभावेनेति । स्वभावेन प्रकृत्या स्थित: समपाद इत्युच्यते । स च स्वभावाभिनये कार्यः। इति समः (१) अञ्चितं लक्षयति-भूस्थपाणिरिति । भूस्थितपाणिः; भूमौ स्थित: पाणिर्यस्य सः ; समुत्क्षिप्ताग्रतल: ; सम्यक् उत्क्षिप्तमुच्चीकृतं तलाग्रं यस्य तथाविधः; प्रसृताङ्गुलिः ; प्रसृता अगुलयो यस्य, तथाविध अञ्चितो भवति । स च हस्तभ्रमरकादिषु विनियोगः । भ्रमरकं करणविशेषः । इत्यञ्चित: (२) कुञ्चितं लक्षयति-कुञ्चितेति । कुञ्चिता अगुलयो यस्य तथाविधः ; उत्क्षिप्तपाणिमध्ये तु, उत्क्षिप्तः उच्च: पाणिः यस्य, तस्य मध्ये तु संकुचितः, कुञ्चिताख्यश्चरणः । स च अतिश्रान्तगतौ ; अतिश्रान्तस्य बहुमार्गगमनश्रान्तस्य गतौ, तुङ्गस्य ग्रहे च, अत्युच्चपदार्थ
। स्यादतिक्रान्तगतौ इत्यपि पाठ:.
Scanned by Gitarth Ganga Research Institute