________________
संगीतरत्नाकरः अथ चरणभेदाः
समोऽश्चितः कुश्चितश्च सूच्यातलसंचरः ॥ ३१२ ॥ उदघट्टितश्चेति मुनेः षड्विधश्चरणो मतः। ताडितो घटितोत्सेधो घट्टितो मर्दितस्तथा ॥ ११३ ॥ अग्रगः पाणिगः पादः पार्श्वगथापरः परैः । इति सप्तापरे प्रोक्ताः पादास्तल्लक्षणं ब्रुवे ॥ ११४ ।। स्वभावेन स्थितो भूमौ समः पादोऽभिधीयते । स्वभावाभिनये कार्यः स्थिरोऽसौ रेचके चलः ॥ ३१५ ॥
इति सम: (१) भूस्थपाणिः समुत्क्षिप्ताग्रतलः प्रमृताङ्गुलिः । अश्चितः स भवेत्पादो इस्तभ्रमरकादिषु ॥ ३१६ ॥
इत्यञ्चितः (२) प्रेक्षणादिषु च कार्या । इति च्छिन्ना (३) विवृत्तां लक्षयति-पराङ्मुखेनेति । पराङ्मुखेन पार्वेण अभिमुखं विवर्तिता कटी विवृत्ता । सा विवर्तने कार्या । इति विवृत्ता (४) रेचितां लक्षयति-सर्वत इति । सर्वतो भ्रमणात् रेचिता। सा भ्रमणे कार्या । इति रेचिता (६) ३०७-३११- ॥
इति पञ्चविधा कटी। (क०) पादभेदानुद्दिश्य लक्षयति-समोऽश्चित इत्यादि । सविनियोगानि तेषां लक्षणानि स्फुटार्थानि ॥ -३१२-३२५ ॥
___ इति त्रयोदश चरणभेदाः।
(सु०) चरणभेदानाह-सम इति । समः, अश्चित:, कुञ्चितः,सूची, अग्रतलसंचर:, उद्घट्टित इति भरतमतेन चरण: षड्विधः । मतान्तरमाह-ताडित
Scanned by Gitarth Ganga Research Institute