________________
सप्तमो नर्तनाध्यायः तां कुब्जवामनादीनां गमने च प्रयोजयेत् ॥ ३०८ ॥
इति कम्पिता (१) शनैरुच्चलिता पार्थद्वयेनोद्वाहिता कटी। स्त्रीणां लीलागतेष्वेषा पीनाङ्गानां गतावपि ॥ ३०९ ॥
इत्युद्वाहिता (२) छिन्ना तिर्यमुखे पार्थे मध्यस्य वलनात्कटी । व्यायामे संभ्रमे चैषा व्यावृत्तप्रेक्षणादिषु ॥ ३१० ॥
इति च्छिन्ना (३) पराङ्मुखेन पाश्रूणाभिमुखं या विवर्तिता । विवृत्ता सा कटी प्रोक्ता विनियोज्या विवर्तने ॥ ३११ ।।
इति विवृत्ता (४) सर्वतो भ्रमणादुक्ता रेचिता भ्रमणे भवेत् ।
इति रेचिता (५) इति पञ्चविधा कटी।
__(सु०) कटी भेदानाह–कम्पितेति । कम्पिता, उद्वाहिता, छिन्ना, विवृता, रेचिता इति पञ्चविधोक्ता । तासां क्रमेण लक्षणमाह-दृतमिति । द्रुतं शीघ्र पार्श्व गतागते दधती कटी कम्पिता । तां कुब्जवामनादीनां गमने च प्रयोजयेत् । इति कम्पिता (१) उद्वाहितां लक्षयति-शनैरिति । पार्श्वद्वयेन शनैः उच्चलिता कटी उद्वाहिता । एषा स्त्रीणां लीलागमने, पीनाङ्गानां गमनेऽपि विनियुज्यते । इत्युद्वाहिता (२) छिन्नां लक्षयति- छिन्ना इति । तिर्यमुखे पार्वे मध्यस्य वलनात् छिन्नाकटी भवति । एषा व्यायामे, संभ्रमे, व्यावृत्त
Scanned by Gitarth Ganga Research Institute