________________
८८
संगीतरत्नाकरः निम्नं शिथिलमाभुग्नं वक्षः स्याद्र्वलज्जयोः ॥ २९८ ॥ शीतहच्छल्ययोः शोके मूर्छाभीसंभ्रमेषु च। . कार्य व्याधौ विषादे च ब्रूते शंकरकिंकरः ॥ २९९ ॥
इत्याभुग्नम् (२) निर्भुग्नं निम्नपृष्ठत्वादुन्नतं स्तब्धमप्युरः । माने च सत्यवचने स्तम्भे विस्मयवीक्षिते ॥ ३०० ॥ 'प्रकृष्टभाषणे गर्वोत्सेके चेदं प्रयुज्यते ।
इति निर्भुमम् (३) प्रकम्पितं कम्पितं स्यादूर्ध्वक्षेपैनिरन्तरैः ॥ ३०१॥ स्यागीहासश्रमश्वासकासहिकासु रोदने ।
___ इति प्रकम्पितम् (४) चतुरश्राङ्गं संश्रय अङ्गविन्यासो यस्य तथाविधं वक्षः प्रकृतिस्थम् , स्वाभाविकं सममित्युच्यते ॥ -२९६, २९७- ॥
इति समम् (१) (सु०) आभुग्नं लक्षयति--निम्नमिति । निम्नमुन्नतम् , शिथिलं वक्ष अभुग्नम् । तच्च गर्वे, लजायाम् , शीते, हृच्छल्ये, शोके, मूर्छाभीतिसंभ्रमादिषु, व्याधौ, विषादे च प्रयुज्यते ॥ -२९८, २९९ ॥
इत्याभुमम् (२) ___ (सु०) निर्भुग्नं लक्षयति—नि ममिति । निम्नपृष्ठत्वात् उन्नतमुरो निर्भुग्नम् । तच्च माने, सत्यवचने, स्तम्भे, विस्मयवीक्षिते, प्रकष्टभाषणे, गर्वाधिक्ये च प्रयुज्यते ॥ ३००, ३००- ॥
इति निर्भुमम् (३) (सु०) प्रकम्पितं लक्षयति-प्रकम्पितमिति । निरन्तरैः ऊर्ध्वप्रक्षेपैः प्रहर्षभाषणे इति पाठः।
Scanned by Gitarth Ganga Research Institute