SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः अकम्पं सरलोत्क्षिप्तमुद्वाहितमुदीरितम् ॥ ३०२ ।। दीर्घोच्छ्वासे च जृम्भायामुत्तुङ्गालोकने च तत् । इत्युद्वाहितम् (५) इति पञ्चविधं वक्षः । अथ पार्श्वभेदाः विवर्तितं चापसृतं प्रसारितमथो नतम् ॥ ३०३ ॥ उन्नतं चेति संचख्युः पार्थ पञ्चविधं बुधाः । विवर्तनात् त्रिकस्य स्यात्परावृत्तौ विवर्तितम् ॥ ३०४ ।। ___ इति विवर्तितम् (१) तन्निवृत्त्या त्वपसृतं भवेत्पार्धविवर्तने । इत्यपमृतम् (२) अवलम्बितैः कम्पितं वक्षः प्रकम्पितमित्युच्यते । तच्च भये, हासे, श्रमे, श्वासे, कासे, हिक्कायाम् , रोदने च प्रयुज्यते ॥ -३०१, ३०१- ॥ इति प्रकम्पितम् (४) (सु०) उद्वाहितं लक्षयति-अकम्पमिति । सरलोत्क्षिप्तम् , उच्चीकृतम् , अकम्पम् ; कम्पहीनं वक्ष उद्वाहितम् । तच्च दीर्घोच्छासे, जृम्भायाम् , उत्तुङ्गालोकने च प्रयुज्यते ॥ -३०२, ३०२- ॥ ___ इत्युद्वाहितम् (५) इति पञ्चविधं वक्षः । (क० ) पार्श्वभेदानुद्दिश्य लक्षयति'- विवर्तितमित्यादि ॥ -३०३-३०६ ॥ इति पञ्चविधं पार्श्वम् । ___ (सु०) पार्श्वभेदानाह-विवर्तितमिति । विवर्तितम् , अपसृतम् , प्रसारितम् , नतम् , उन्नतमिति बुधाः नृत्तज्ञाः पार्श्व पञ्चधा संचक्ष्युः । अत्र Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy