________________
सप्तमो नर्तनाध्यायः अथ वक्षोभेदाः
स्याद्वक्षः सममाभुग्नं निर्भुनं च प्रकम्पितम् ।। २९६ ॥ उद्वाहितं पञ्चधेति तेषां लक्ष्माभिदध्महे । सौष्ठवाधिष्ठितं वक्षश्चतुरश्राङ्गसंश्रयम् ॥ २९७ ॥ प्रकृतिस्थं समं प्राहुः स्वभावाभिनये च तत् ।
इति समम् (१) असौष्ठवा इत्यर्थः । अत्र उत्तमादितारतम्येन पात्राणि योजयेदिति । हस्ताभिनयस्य केषुचित् स्थानविशेषनिषेधमाह--विषण्णे इति । विषण्णे, व्याकुले, भीते, मूर्छिते, तन्द्रालौ, जुगुप्सायाम् , शोकसंतप्ते, ग्लाने, जरापीडिते, रोगाते, शीतार्ते, निश्चेष्टे, तापसे, मत्ते, उन्मत्ते, प्रमत्ते च हस्ताभिनयो न कार्यः । उत्सर्गेणोक्तस्याभिनयनिषेधस्य क्वचिदपवादमाह-सूचयन्तीति । -२८६-२९५- ॥
इति हस्तप्रकरणम् । (क०) अथ वक्षःप्रभेदानुद्दिश्य लक्षयति-स्याद्वक्ष इत्यादि । तत्र समस्य वक्षसो लक्षणे-सौष्ठवाधिष्ठितमिति । सौष्ठवेन कटीजान्वित्यादिनोक्तलक्षणेनाधिष्ठितम् । चतुरश्राङ्गसंश्रयमिति । चतुरश्रं च तदङ्गं च चतुरश्राङ्गम् । चतुरश्राङ्गं संश्रयो यस्येति तथोक्तम् । ____ वैष्णवं स्थानकं यत्र कटीनाभिचरौ करौ ।
पृथक्समुन्नतं वक्षश्चतुरश्रं तदुच्यते' इति ॥ चतुरश्राङ्गलक्षणं वक्ष्यते । शिष्टं स्पष्टम् ॥ २९६-३०२- ॥
इति पञ्चविधं वक्षः । (सु०) वक्षोभेदान् विभजते-स्यादिति । समादिभेदेन वक्षसः पञ्च भेदाः । समम् , आभुग्नम्, निर्भुग्नम् , प्रकम्पितम् , उद्वाहितमिति । तेषां क्रमेण लक्षणमाह-सौष्ठवेति । सौष्ठवाधिष्ठितम् ; सौष्ठवमवष्टम्भः तेन अधिष्ठितं संयुक्तम् , चतुरश्राङ्गसंश्रयम् , चतुरश्रमायतोन्नतमङ्गं च
Scanned by Gitarth Ganga Research Institute