________________
८६
संगीतरत्नाकर:
जुगुप्साशोकसंत सुप्ते ग्लाने जरार्दिते । रोगशीतार्तनिश्रेष्टसंचितेष्वपि तापसे ।। २९४ ॥ मत्तोन्मत्तप्रमत्तेषु न हस्ताभिनयो भवेत् । सूचयन्त्यान्तरं भावं ये कराः कर्कटादयः ।। २९५ ।। विषण्णादिष्वपि प्रायः प्रयोज्यास्ते सतां मताः ।
इति हस्तप्रकरणम् ।
भिनेयविशेषेषु हस्ताभिनयं निषेधति - विषण्ण इति । किं सर्वत्र एवात्र न हस्ताभिनय इत्याशङ्कय प्रतिप्रसवार्थमाह – सूचयन्तीति ॥
॥ - २९२ - २९५ ॥
इति हस्तप्रकरणम् |
1
(सु०) हस्तलक्षणमुपसंहरति - प्रदर्शनार्थमुक्त मिति । अभिनेयार्थानामानन्त्यात् इयन्तो हस्ता इति वक्तुं ब्रह्मादयोऽपि नेशते । अत एते हस्ताः दिक् प्रदर्शनार्थं मया हस्तसप्ततिरुक्ताः । लोकरीत्या अन्येऽप्यनया दिशा ऊहनीया: । हस्तानां प्राधान्यमाह – नेत्रेति । वक्ष्यमाण नेत्राद्युपाङ्गयुक्ताश्चैते रसभावव्यञ्जकाः कर्तत्र्या: । अभिनयविशेषे तेषां स्थानविशेषमाह-उत्तमेष्विति । उत्तमाभिनये ललाटक्षेत्रे हस्तानां प्रचारः ; मध्यमाभिनये वक्षसि प्रचारः । अधमाभिनये अधोगतः प्रचार इति । अन्यैरियं ललाटादिव्यवस्था उत्तममध्यमाधमस्थाननियमा अभिनेतृविशेषणत्वेनोक्ताः ।
अभिनेयविशेषेणैतेषां संनिकर्षविशेषमाह - उत्तम इति । विशेषेण हस्तप्रचाराणामल्पत्वबाहुल्ये कथयति - अल्प इति । भूरिसात्त्विके प्रत्यक्षे हस्तप्रचारोऽल्पः । परोक्षे प्रचुरः । मध्यमे मध्यमः | अभिनेतृविषयामन्यां व्यवस्थामाह - कार्या इति । उत्तमपात्रैः; मध्यमपात्रैश्च सुयक्तलक्ष्माणः, मुव्यक्तं लक्ष्मा येषां ते तथोक्ताः ; ससौष्ठवा : ; वक्ष्यमाणसौष्ठवलक्षणेन सहिताश्च कार्याः । नीचैस्त्विति । नीचपात्रैस्तु, तद्विलक्षणाः, उत्तमादिविलक्षणा:
Scanned by Gitarth Ganga Research Institute