________________
सप्तमो नर्तनाध्यायः लोकवृत्तानुसारात्तेऽप्यूह्यन्तामनया दिशा ॥ २८७ ॥ नेत्रभूमुखरागाद्यैरुपाङ्गैरुपबृंहिताः । प्रत्यङ्गैश्च कराः कार्या रसभावप्रदर्शकाः ॥ २८८ ॥
(क०) एवं हस्तानामानन्त्ये सिद्धे तत्राप्रसिद्धहस्तपरिज्ञाने लोकं प्रमाणयन्नाह-लोकवृत्तानुसारात्तेऽप्यूह्यन्तामनया दिशेति । तथा चाह मुनिः
" नोक्ता ये च मया ह्यत्र लोकाग्राह्यास्तु ते बुधैः । लोको वेदास्तथाध्यात्म प्रमाणं त्रिविधं स्मृतम् ।
तस्मान्नाट्यप्रयोगे तु प्रमाणं लोक इष्यते ।" इति । अत्रेदमुपहरम्-अभिनयानन्त्याद्धस्तानन्त्येऽपि स्वबुद्धया लोकतो वानुक्तहस्तकल्पनायां करणप्रचारादिभिः संयुतत्वेनासंयुतत्वेन वा संनिवेशविशेष एव कल्पनीयः, न तूक्तपताकादिव्यतिरिक्तो हस्तः । उक्तरीत्या कल्पितस्य तावत्येव हस्तान्तरसिद्धः कंचिदप्यर्थ यथा तथा वा धर्मिद्वयाश्रयणेन यथाशोभमभिनीय पताकादिष्वन्यतमे पर्यवस्येदिति । ननु कचिदेकस्याप्यर्थस्य बहवो हस्ताः संभवन्ति, तत्र केनाभिनयः कर्तव्य इति चेदुच्यते । प्रयोगे पूर्वापरसंगतत्वेन यः शोभाकारी करस्तेनाभिनयः कर्तव्य इति मन्तव्यम् । यथाह भरत:
"अर्थस्यैकस्य भूयांसः संभवन्ति यदा कराः ।
शोभाकारी तदा तत्र करः कार्यः प्रयोक्तृभिः" ।। इति ॥ -२८७ ॥
(क०) अभिनये त्वङ्गान्तरापेक्षया हस्तानामेव प्राधान्यं दर्शयितुमाह-नेत्रभ्रूमुखरागाद्यैरिति । अत्राद्यशब्देन तारापुटादीन्युपाङ्गान्त
Scanned by Gitarth Ganga Research Institute