________________
८४
संगीतरत्नाकर:
उत्तमेष्वभिनेयेषु ललाटक्षेत्रचारिणः ।
वक्षःस्था मध्यमेषु स्युरधमेषु त्वधो मताः ।। २८९ ॥ अन्यैरुक्ता व्यवस्थेयमुत्तमाद्यभिनेतृषु ।
उत्तमे संनिकृष्टाः स्युर्मध्यमे मध्यसंस्थिताः ।। २९० ॥ अधमे त्वभिनेये स्युर्विप्रकृष्टचराः कराः ।
राणि गृह्णन्ते । मुखे रागस्यानुपाङ्गत्वेऽपि नेत्राद्युपानसाहचर्यादुपाङ्गत्वमुपचर्यते । प्रत्यङ्गैश्चेत्यत्र चकारेणाङ्गान्यपि समुच्चीयन्ते । तेन शिरश्चरणादीन्यप्यङ्गान्यभिनये हस्तानामुपबृंहकत्वादुपसर्जनानि भवन्तीत्यर्थः । हस्तानामप्युपाङ्गाद्युपबृंहितानामेव रसभावप्रदर्शकत्वं भवति, न तु केवलानामिति भावः । कार्या इति प्रयोक्तृविषयो नियमविधिः ॥ २८८ ॥
(क) अथाभिनयहस्तानामभिनेयार्थाधीनं स्थाननियममाह - उत्तमेष्वित्यादि । उत्तमेषु सुवर्णादिष्वर्थेषु, अभिनेयेषु, अभिनेतव्येषु करा ललाटक्षेत्रचारिणः स्युरिति । तथा कर्तव्या इत्यर्थः । मध्यमेषु पुष्पफलाद्यर्थेभिनेतव्येषु वक्षःस्थाः स्युः । अधमेषु पिण्याकादिष्वर्थेषु त्वभिनेतव्येष्वधोगताः स्युः ॥ २८९ ॥
;
(क) इयमर्थकृता व्यवस्थाभिनेतृ विषयत्वेनान्यैरुक्तेत्याह - अन्यैरिति । उत्तमाद्यभिनेतृषु उत्तमा अभिनेतारो राजदेवीप्रभृतय: ; आदिशब्देन, मध्यमा अभिनेतारः सेनापतिपुरोहितप्रभृतयः ; अधमा दौवारिकपरिचारकादयश्च गृह्यन्ते । एतेष्वभिनेतृषु, इयं व्यवस्थोक्तेति । राजादिष्वभिनेतृषु ललाटदेशचारिणः, पुरोहितादिष्वभिनेतृषु वक्षःस्थाः, दौवारिकादिष्वभिनेतृष्वधोगताश्च कर्तव्या इति व्यवस्था | उत्तमाद्यर्थविषयं व्यवस्थान्तरं दर्शयति — उत्तमे संनिकृष्टाः स्युरित्यादि ॥ -२८९,२९० ॥
Scanned by Gitarth Ganga Research Institute