________________
संगीतरत्नाकरः करा इति । साकल्येनाकथन आनन्त्यमेव हेतुर्द्रष्टव्यः । आनन्त्यमेव कुत इत्याकाङ्क्षायामाह-आनन्त्यादभिनेयानामिति । अभिनेयानाम् ; जातिक्रियागुणद्रव्यरूपाणां पदार्थानाम् । तेषामानन्त्यमेव हस्तानन्त्ये हेतुरुक्तः । एतेन प्रत्यर्थ हस्तोऽपि भिन्न इत्यभिप्रायः सूचितो भवति । नन्वेवं तर्हि भूयसामप्यर्थानामेकैकेन सूचीमुखादिना भरतादिभिः कृतमभिनयप्रदर्शनं कथमिति चेदुच्यते । न हि तेषामप्येक एव सूचीमुखादिर्बह्वर्थप्रदर्शकोऽभिमतः । किंतु करणकर्मस्थानप्रचारक्रियादिभेदात्प्रत्यर्थ भिन्न एवेत्यमिमतः । एकत्वव्यवहारस्तु संक्षेपार्थ वृक्षादिशब्दवत्प्रकृतिसारूप्याद्रष्टव्यः । यथा वृक्षशब्दे विभक्त्यादिभेदात्प्रत्यर्थ भिन्नेऽपि लौकिकानामेकोऽयमिति व्यवहारः, तथा पताकादावपि प्रकृतिसारूप्यादेकत्वव्यवहारोडवगन्तव्यः । कचिदनेकेष्वप्यर्थेष्वेकरूपकरणस्थानादियुक्तस्य हस्तस्य प्रयोगदर्शनं त्वनेकार्थानामक्षादिशब्दानां प्रयोगवदवगन्तव्यम् । एवं सति हस्तसप्ततिवचनं संक्षेपाभिप्रायं मन्तव्यम् । अयमेवार्थोऽभिनवगुप्तपादैर्भारतीयविवृतौ प्रपञ्चितः ; विवृतश्च संयुतहस्तनिगमनावसरे । यथा-" असंयुतास्तावदेते भवन्ति । न येतेऽसंयुता एव । नाप्येत एव कोहलादिभिरन्येषां दर्शनात्" इत्युपक्रम्य, " तथाहि ; कूपराधी'तत्रिपताकेन पार्श्वे खटकामुखेन च स्त्रीणामभिनय इति, खटकेन कर्णान्तमागच्छता वामेन च कपित्थमुष्टयान्यतरेण बाणमोक्षः" इति च । अत्र स्त्रीदर्शने नैकस्त्रिपताको नैकः खटकामुखो वा । किं तूभयसंनिवेशवानेको हस्तः । तथा बाणमोक्षाभिनये नैकः खटको नापि मुष्टिकपित्थयोरन्यतरः । अपि तु तत्संनिवेशविशेषवानन्यो हस्तः। तथा मुनिनापि ---
" अङ्गाद्यभिनयस्येह यो विशेषः क्वचित् क्वचित् । अनुक्त उच्यते यस्मात्स चित्रोऽभिनयः स्मृतः" ||
इति प्रपश्चितः ॥ २८६. ॥ कूर्पराधिक• इत्यपि पाठो दृश्यते.
Scanned by Gitarth Ganga Research Institute