________________
सप्तमो नर्तनाध्यायः शयनार्थेऽङ्गुलिस्फोटे स्त्रीणामनुनये तथा ॥ २८४ ॥ नास्तीत्यर्थेऽपि संयुज्य वियुक्तं शिखरद्वयम् ।
इति द्विशिखर: (संयुतहस्तः) (२) पृथग्दक्षिणवामौ चेद्वरदाभयदौ करौ ।। २८५ ॥ अरालौ कटिपार्श्वस्थौ तदोक्तौ वरदाभयौ ।
___इति वरदाभयौ (नृत्तहस्तौ) (३)
इति मतान्तरोक्तास्त्रयो हस्ताः । प्रदर्शनार्थमुक्तेयं हस्तानां सप्ततिर्मया ॥ २८६ ।।
आनन्त्यादभिनेयानां सन्त्यनन्ताः परे कराः। द्विशिखर: करो भवति । अस्य विनियोगस्तु-स्वापनार्थे, अङ्गुलिस्फोटे, तथा स्त्रीणामनुनये, नास्तीत्यर्थे च कार्यः ॥ २८४- ॥
इति द्विशिखरः (संयुतहस्तः) (२) (क०) मतान्तरोक्तानां निकुञ्चकादीनां त्रयाणां कराणां लक्षणानि सविनियोगमाह-~-पताको मध्यमामूल इत्यादिना ॥ -२८३-२८५- ।।
___ इति वरदाभयौ (नृत्तहस्तौ) (३)
इति मतान्तरोक्तास्त्रयो हस्ताः । (सु०) वरदाभययोर्लक्षणमाह-पृथगिति । संयुज्य वियुक्तं शिखरद्वयं पृथक् दक्षिणे वामे च स्थितं चेत्, तदा वरदाभयौ भवतः । कटीशीर्षस्थौ अरालावपि वरदाभयाविति ॥ २८५ ॥
इति वरदाभयौ (नृत्तहस्तौ) (३)
इति मतान्तरोक्तास्त्रयो हस्ताः । (क०) निगमयति-प्रदर्शनार्थमिति । अभिनय दिक्प्रदर्शनार्थमियं हस्तानां सप्ततिरुक्तेत्युक्ते सति न साकल्येनोक्ता हस्ता इति प्रतीयते । असाकल्येनोक्तौ सत्यां कति हस्ता इत्याकाङ्क्षायामाह-सन्त्यनन्ताः परे
Scanned by Gitarth Ganga Research Institute