SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः खटकामुखहस्तौ चेन्मुष्टिकस्वस्तिकौ तदा । कपित्थौ शिखरौ मुष्टी चाथ वा स्वस्तिकाकृती ॥ २७१ ॥ इति मुष्टिकस्वस्तिकौ (२५) ७७ अश्लिष्टस्वस्तिकौ सन्तौ व्यावृत्तक्रियया करौ । मिथः पराङ्मुखौ कृत्वा यौ कृतौ पद्मकोशकौ ।। २७२ ।। नलिनीपद्मकोशौ तावपरे त्वन्यथा जगुः । अन्योन्यसंमुखौ सन्तौ संश्लिष्टमणिबन्धकौ || २७३ ।। पद्मकोशौ पृथक्प्राप्तौ व्यावृत्तिपरिवर्तने । नलिनीपद्मकोशौ स्तः केऽप्याहुः पद्मकोशयोः ।। २७४ ॥ व्यावृत्त्या परिवृत्त्या च जान्वन्तिकगताविमौ । स्कन्धयोः स्तनयोर्यद्वा जानुनोर्निकटं गतौ ।। १७५ ।। मणिबन्धाकुञ्चनप्रभवया आवेष्टितवर्तनयेत्यर्थः । अरालकरणे तस्याः संगतत्वात् तथान्यमलपल्लवमिति । तथेति, तदुचितवर्तनयेत्यर्थः । अत्राल संगतया मणिबन्धाकुञ्चनप्रभवयोद्वेष्टितवर्तनयेति द्रष्टव्यम् । अत्र खटकामुखादीनां पारंपर्येण मुष्टिप्रभवत्वात्तेष्वन्यतमप्रयोगेऽपि मुष्टिकस्वस्तिकव्यपदेश उपपन्न इति तद्विदां मतम् ॥ २७०, २७१ ॥ इति मुष्टिकस्वस्तिक (२५) (सु०) मुष्टिकस्वस्तिकयोर्लक्षणमाह-एकमिति । एकं हस्तं वर्तनया सह अरालं कृत्वा, तथा अन्यम् अलपल्लवं मुहुः क्रमात् विधाय, खटकामुखाकृती द्वौ हस्तौ स्वस्तिकाकृती क्रियेते चेत्तदा मुष्टिकस्वस्तिकौ भवतः ॥ २७०, २७१ ॥ इति मुष्टिकस्वस्तिक (२५) (क०) नलिनीपद्मकोश योर्द्वितीयलक्षणे - व्यावृत्तिपरिवर्तने पृथ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy