________________
७६
संगीतरत्नाकरः एकत्रोरःस्थितोत्तानेऽन्यस्मिन्पार्श्वप्रसारिते ॥ २६७ ।। व्यावर्तितेनालपनीकृत्वोरस्थो यदा करः। स्वपार्थ नीयतेऽन्यस्तूद्वेष्टितक्रियया करः ॥ २६८ ॥ तदैवारालतां प्राप्य यात्युरो मण्डलाकृतिः । अन्योऽप्येवं कराभ्यासादुरःपार्थार्धमण्डलौ ॥ २६९ ॥
इत्युरःपावधिमण्डलौ (२४) एकं वर्तनयारालं तथान्यमलपल्लवम् । हस्तं मुहुः क्रमात्कृत्वा क्रियते स्वस्तिकाकृती ॥ २७० ॥
(क०) उरःपार्वार्धमण्डलयोर्लक्षणे-एकत्र ; एकस्मिन् हस्त उरःस्थितोत्ताने सति, उरःस्थितश्चासावुत्तानश्चेति समासः । अन्यस्मिन् हस्ते प्रसारिते सति । अत्रानुक्तमप्युत्तान इत्यूहनीयम् । अन्यथा अन्यस्थावेष्टितक्रियया कर इति वक्ष्यमाणावेष्टितक्रियोचितसंनिवेशाभावेनाशोभावहत्वं स्यात् । एवमन्यः करस्तदैवारालतां प्राप्य मण्डलाकृतिः सन् उरो यातीति संबन्धः । तदेवेति । यदोरस्थः करः स्वपार्श्व नीयते पार्श्वप्रसारितोऽपि करस्तत्समसय एवोरो यातीत्यर्थः ।। -२६७-२६९ ॥
इत्युरःपावर्धिमण्डलौ (२४) (सु०) उर:पावर्धिमण्डलयोर्लक्षणमाह-एकत्रेति । एकस्मिन् हस्ते उत्तानाने उर:स्थिते सति, अन्यस्मिन् पावें प्रसारिते सति, यदैक: करो व्यावर्तितेन अलपनं कृत्वा स्वपार्वं प्राप्यते, अपर उद्वेष्टनेन तस्मिन्नेव समये अरालो भूत्वा मण्डलाकृतिर्भवति । अन्योऽप्येवमेव ; एवं रूपकराभ्यासात् उर:पार्धिमण्डलाख्यौ करौ भवतः ॥ -२६७-२६९ ॥
इत्युर:पाधिमण्डलौ (२४) (क०) मुष्टिकस्वस्तिकयोर्लक्षणे-एकं वर्तनयारालमिति । वर्तनया
Scanned by Gitarth Ganga Research Institute