________________
सप्तमो नर्तनाध्यायः युगपत्करणे कृत्वोद्वेष्टितं चापवेष्टितम् ॥ २६४ ॥ यातौ स्वपार्थे वक्षस्तो भ्रान्त्या मण्डलवत्क्रमात् । वक्षोऽभिव्युत्क्रमाप्राप्तावुरोमण्डलिनौ करौ ॥ २६५ ॥ अनयोर्धमणं पाहुरन्ये वक्षस्थलस्थयोः । उरोवर्तनिकात्वेन प्रसिद्धौ तद्विदामिमौ ॥ २६६ ॥ हंसपक्षौ परे माहुरूव॑मण्डलिषु त्रिषु ।
इत्युरोमण्डलिनौ (२३) (क०) उरोमण्डलिनोर्लक्षणे-उद्वेष्टितमपवेष्टितं च करणे युगपत्कृत्वेति । एकेन हस्तेनोद्वेष्टितमन्येनापवेष्टितं च कृतं चेत्करणद्वयस्य योगपद्यं संभवति । तथा चैकस्यागमनेऽन्यस्य गमनं कर्तव्यमिति भिन्नरूपाभ्यां वर्तनाभ्यां वक्षस्तो वक्षःप्रदेशात्स्वपार्श्वयोः पार्श्वदेशात्प्रति मण्डलवज्रान्त्या मण्डलाकारभ्रमणेन यातौ गतौ, ततो वक्षो वक्षःस्थलमाभिमुख्येन व्युत्क्रमादुपक्रान्तं क्रममुल्लङ्घय प्राप्तौ। अयमर्थः-उद्वेष्टितोपक्रमेण स्वपार्श्वगतो हस्त आवेष्टितेन वक्षः प्राप्नोति । तथावेष्टितोपक्रमेण स्वपार्श्वगतश्चोद्वेष्टितेन वक्षः प्राप्नोतीति । हंसपक्षौ परे प्राहुरित्यनेन प्रथमं पताकाविति मन्तव्यम् ॥ २६४-२६६- ॥
इत्युरोमण्डलिनी (२३) (सु०) उरोमण्डलिनोर्लक्षणमाह-युगपदिति । यत्र समकालमेवोद्वेष्टितमपवेष्टितं च करणं यातौ गच्छतौ स्वपार्श्वस्थौ मण्डलभ्रमणं कृत्वा, पुनः पुनः वक्षः प्राप्तौ उरोमण्डलिनौ भवतः । मतान्तरमाह-अन्ये इति । अन्ये ; आचार्याः, अनयोः वक्षस्थलस्थयोः भ्रमणं प्राहुः । इमौ नृत्तविदाम्, उरोवर्तनिकात्वेन प्रसिद्धौ । मतान्तरमाह-पर इति । परे; आचार्याः, ऊर्ध्वमण्डलिनमारभ्य त्रिषु हस्तकेषु हंसपक्षावित्याहुः ॥ -२६४-२६६-॥
इत्युरोमण्डलिनी (२३)
Scanned by Gitarth Ganga Research Institute